Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 35
________________ धात्वर्थनिर्णयः । 1 अस्ति प्रवर्त्तनारूपमनु चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ।। न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानं चतुर्णामादितः कृतमिति ॥ A प्रवर्त्तनात्वञ्च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वं तच्चेष्टसाधनत्वस्यास्तीति तदेव*विध्यर्थः यद्यप्येतत् कृतिसाध्यत्वस्यापि तद्भानस्यापि प्रवर्त्तकत्वात्तथापि यागादौ सर्व्वत्र तल्लोकतएव गम्यतइत्यन्यलभ्यत्वान्नतच्छक्यम् वलवदनिष्टाननुबन्धित्वज्ञानञ्च न हेतुः द्वेषाभावेनान्यथासिद्धत्वात् आस्तिककामुकस्य नरकसा * तदेवेति । इष्टसाधनत्वमेवेत्यर्थः ॥ एवकारेण कृतिसाध्यत्वाऽऽदिव्यवच्छेदः ॥ इष्टत्वं च समभिव्याहृतपदोपस्थापितकामनाविषयत्वं ॥ स्वर्गकामो यजेतेत्यत्र स्वर्गकामपदोपस्थापित कामनाविषयत्वस्य स्वर्गे सत्त्वादिष्टत्वं तस्याऽक्षतम् ॥ तेनैव च स्वर्गादीष्ठानामनु गमः ॥ यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्त्यनुदयात्तदूरूपेण स्वर्गत्वाऽऽदिना स्वर्गसाधनताज्ञानं तथा वाच्यम् । तथा च तेन रूपे णेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात्कथं प्रवर्तकज्ञाननिर्वाह इति विभाव्यते तष्टताऽवच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदयच्छिन्नसाधनत्वे विधेः शक्तिरुपगन्तव्या ॥ एवं च न विधेर्नानार्थत्वमपि तदादिवत् ॥ इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाश्च न स्वर्ग त्वादीनां तद्रूपेण भानाऽऽपत्तिः ॥ अथ स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र श्रुत्या स्वर्गसाधनत्वं ज्योतिष्टोमे बोधनीयम् ॥ तच्च न सम्भवति वाजपेयादपि स्वर्गेौत्पत्तेव्यभिचारात् ॥ वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेन्न ॥ घटं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षितव्यक्तितद्विशेष्यकद्रव्यत्वप्रकारकज्ञानाऽवगम वत्स्वर्गत्वाऽऽश्रययत्किञ्चिद्व्यक्तिसमानाधिकरणाऽभावा ऽप्रतियोगित्वमेव श्रुत्या यागेऽवगम्यतेऽथवा यागाऽनुत्तरकालाऽवृत्तित्वमेवे स्वर्गत्व सामानाधिकरण्येनेति न कश्चिद्दोषः ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140