Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
२८
वैयाकरणभूषणसारे पर्वतोवह्निमान् धूमात् महानसवत् भूतले न घटः भूतले घट इत्यादिपदात् एवमादिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्चाभ्युपेयते तर्हि चतुर्थ्या स्पृहिकल्पनापि त्यज्यतामित्यर्थः । अनुशासनानुरोधतौल्ये अर्धजरतीयम*युक्तमिति भावः ॥१८॥
एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वयइत्याह । अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ॥
.. न विविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । तथा च ग्रामं गतइत्यत्र यथा क्तप्रत्ययार्थे गुणीभूतापि क्रिया प्रामादिकभिः सम्बध्यते तथा कृतपूर्वी कटमित्यत्रापि न घट इत्यत्र सप्तम्यर्थभूतलाऽऽधेयत्वस्य तथाऽभाव इत्यत आह । मूले । यदिपक्षेऽपीति । पक्षेप्रतिज्ञावाक्यजन्यबोधबिशेष्य सन्दिग्धसाध्यके धर्मिणि पर्वतादाविति यावत् ।
* इदमर्थे गहादित्वाच्छः क्वचिदनुशासनाऽनुरोधः कचिन्नेत्यर्द्धजरतीसहशमित्यर्थः । तथा च स्वीयसिद्धान्तप्रच्युतिरूपबाधकभिया.. त्राऽपि पर्वतो वह्निमान् भवितुमर्हतीत्येव प्रतिज्ञाङ्गीकरणीया न तु क्रियावाचकपदशून्या सेति नोक्तनियमे व्यभिचारो भूतले न घट इत्यादौ यद्वक्तव्यं तत्तूक्तं वक्ष्यते वाऽधिकमिति भावः ।
+ नन्वत्र कर्मणि क्ते कटशब्दादनाभहिताऽधिकारीय द्वितीयाs नुपपत्तिः भावे क्तस्तु सकर्मकाद्गगनकुसुमायमान एव तयोरेवेति नियमात् । अतएव नपुंसके भावेऽपि न सः । तथा च कथ मुक्तदाीन्तिकवाक्योपपत्तिरिति चेत्राऽऽहुः । कर्मणो विशेषरूपेण प्राग विवक्षयाऽकर्मकत्वाद्भावे प्रत्यये तदन्तस्य पूर्वशब्देन समासे सपूर्वाश्वेतीनिः पश्चात्तु कर्मणो विशेषरूपस्य विवक्षया तत्र द्वितीयेति इदं च कर्तृकर्मणोः कृतीति भाष्ये स्पष्टम् । इदृशविवक्षाऽविवक्षे च तद्भाष्यप्रामाण्यात्कृतपूर्वीत्यादिविषय एव नाऽन्यविषयइति बोध्यम् ।

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140