Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
२६
वैयाकरणभूषणसारे तिः) "तेन तुल्यं क्रिया चेदतिः,, इति विहितः तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् । (धातुसम्बन्धाधिकारे) "धातुसम्बन्धे प्रत्यया" इत्यधिकृत्य तेषां विधानात् । ( असमस्तनञ् ) समासायोग्यः प्रसज्यप्रतिषेधीयोनजित्यर्थः । उत्तरपदार्थान्वयेऽपि समासविकल्पेन पक्षे असमस्तत्वात् यथाश्रुतग्रहणायोगान ! न चासमस्तनाः क्रियान्वये मानाभावः न त्वं पचास न युवां पचथः चैत्रोन पचति घटोन जायते इत्यादौ क्रियाया एव निषेधप्रतीतेः । अतएव विद्यमानेऽपि घटे तथा प्रयोगः । तथा च घटोनास्तीत्यत्राप्यस्तित्वाभावएवबोध्यते । नहि घटो न जायते नास्तीत्यनयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः। तथा च भूतले न घटइत्यत्राप्यस्तीत्यध्याहार्यम् । प्रकारतासम्बन्धेन नगर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुत्वस्य क्लुप्तत्वात् । शेष नबर्थनिर्णये वक्ष्यते ॥ १६॥ • तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्य्यताम् १७॥ ___ “यस्य च भावेन भावलक्षणम्" इत्यत्र भावनार्थकभावशब्देन तद्योगे साधुत्वाख्यानलाभात् “षष्ठी चानादर" इति तदग्रिमसूत्रेऽपि चकाराद्भावेनेत्यप्यन्वेतीत्यर्थः ( साधुत्वमिति ) तत्स्वरूपन्तु वक्ष्यते (क्रिययैवोत) अयं भावः । भूवादिसूत्रादिषु ___ * ननु क्रिययैवाऽवधार्यतामितिमूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फलेऽपि प्रयोगात्साक्षात्परम्परया वा क्रियाफलाऽन्वयेनाऽपि तेषां साधुत्वोपपत्तौ नोक्तरीसिर्धातोापारवाचकत्वसाधिकेत्याशङ्कयाऽऽशयं प्रकाशयति । अयम्भावइति ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140