Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 25
________________ २५ धात्वर्थनिर्णयः। .. सम्बोधनान्तस्य क्रियायामन्वयः, त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात "समानवाक्ये निघातयुष्मदस्मदादेशा" इत्यनेन समानवाक्यएव तन्नियमात, उक्तं हि वाक्यपदीये । सम्बोधनपदं यच्च तत् क्रियायाविशेषणम् * । वजानि देवदत्तेति निघातोऽत्र तथासतीति । पचति भवति देवदत्तेत्यादौ तु सूत्रभाष्यादिरीत्यकवाक्यतासत्वात् स्यादेव निघातः । “तिङ्ङतिङ"इति सूत्रेऽपि तिङन्तानामप्येकवाक्यतास्वीकारात् । एकतिङ् वाक्यमिति वदतां वार्तिककाराणां मते परं न । वस्तुतः एकतिझवशेष्यकं वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम् । ( कृत्वोऽर्थाः ) "क्रियाभ्यात्तिगणने कृत्वमुच्" इति क्रियायोगे तत्साधुत्वोक्तेः क्रियाया अभ्यात्तिः पुनः पुनः जन्म तस्मिन् द्योत्ये इति तदर्थात् । ( कारकम ) कारके इत्यधिकृत्य तेषां व्युत्पादनात् ।' कारकशब्दो हि क्रियापरः करोति कर्तृकांदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियार्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संज्ञेति भाष्ये स्पष्टम् (प्रथमोव . * विशेषणमिति । स्वोदेश्यकप्रवर्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । वजानीत्यस्य हि जानहीति शेषः । “सिद्धस्याऽभिमुखीभावमात्रं सम्बोधनं विदुःप्राप्तोऽभिमुख्यो हि जनः क्रियासुविनियुज्यते'' इति वदता प्रवर्तनाविषयक्रियायामेव तदन्वयबोधनात् । प्रवर्त्तनोहेश्यस्यैव तद्विषयक्रियोद्देश्यत्वादुद्देश्यविधेयभावस्य तयोः संसर्गमादया लाभादेकवाक्यतया निघात इति तदर्थः! शाब्दबोधस्तत्र सम्बोधनविषयदेवदत्तोद्देश्यकप्रवर्तनाविषयं मत्कर्तृकव्रजनकर्मकज्ञानमिति ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140