Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 27
________________ धात्वर्थनिर्णयः। प्रायः क्रियाशब्देन भावनाव्यपदेशात्तत्र तस्य साङ्केतिकी शक्तिः फलांशे काचित्कः क्रियतइति यौगिकः प्रयोगः। तथा च संज्ञाशब्दस्यानपेक्षप्रवृत्तत्वेन बलवत्त्वाद्भावनान्वयएव साधुता लभ्यते । अतएव संज्ञाशब्दपावल्यात् रथन्तरमुत्तराग्रन्थपठितऋक्ष्वेव गेयम् नतु वेदे सदुत्तरपठयमानऋश्विात नवमे निर्णीतम् । किश्च फलांशोऽपि भावनायां विशेषणं कारकाण्यपि कचित्तथाभूतानीति । "गुणानाश्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति" न्यायेन सर्वे सेवका राजानमिव भावनायामेव परस्परनिरपेक्षाण्यवियन्ति । न हि भिक्षुकोऽपि भिक्षुकान्तरं याचितुमर्हति सत्यन्यस्मिन्नभिक्षुकइति न्यायेनापि फलं त्यक्त्वा भावनायामेवान्वियन्तीति मीमांसका अपि मन्यन्ते । एवञ्च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिहेतुरिति कार्यकारणभावस्य क्लुप्तत्वात् यत्रापि पक्ता पाकइत्यादौ भावना गुणभूता तत्रापि क्लृप्तकार्यकारणभावानुरोधात्तस्यामेवान्वयइत्यवसीयते इत्यादि भूषणे अपश्चितम् । केचित्तु भूतले घटः देवदत्तोघटमित्यादावन्वयबोधाकाङ्क्षानिवृत्त्योरदर्शनान तद्व्यातरेकेणसाधुत्वलाभ इत्याहुः ॥ १८ ॥ ___ खयमुपपत्तिमाह । यदि पक्षेऽपि व्रत्यर्थः कारकञ्च नत्रादिषु । अन्वेति त्यज्यतां तर्हि चतुर्थ्यास्पृहिकल्पना ॥ * ननु सम्बोधनान्तादीनां क्रियान्वये एव साधुत्वे पर्वतो वन्हिमान्महानसवदित्यादौवत्यर्थसादृश्यस्य कथं पर्वतेऽन्वयः कथं वा भूतले

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140