Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
धात्वर्थनिर्णयः।
२१ भाव्यत्वेन विवक्षिते । (अस्त्येव ) प्रतीयतेएव । अयमर्थः स ततो गतो न वेति प्रश्ने महता यनेनास्तीति प्रयोगे सत्तारूपफलानुकूला भावनाप्रतीयतएव उत्पत्त्यादिबोधने * तु सुतरां "रोहितोलोहितादासीद्धन्धुस्तस्य सुतोऽभवदित्यादि,, दर्शनात् । किञ्च अत्र भावनाविरहे लड़ादिव्यवस्था न स्यात् तस्याएव र्वतमानत्वादिविवक्षायां तद्विधानात् ।
"क्रियाभेदाय कालस्तु संख्या सर्वस्यभेदिकेति,वाक्यपदीयादिति । नन्वेवमस्तीत्यत्र स्पष्टं कुतोन बुद्धयतइत्यतआह (अन्यवेति ) ( अशेषभावात् ) भावनायाः फलसमानाधिकरणत्वात् । तथा च भावनायाः फलसामानाधिकरण्यं तदस्पष्टत्वे दोषइतिभावः । नन्वेवं किं करोतीति प्रश्ने पचतीत्युत्तरस्येवास्तीत्युत्तर
- * ननु स ततो गतो न वेति वाक्याद् गेहाद्यवधिकविभागाऽनुकूलव्यापाराऽऽश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते मह ता यत्नेनाऽस्तीति वाक्यात्वस्तापाराऽर्थकत्वाऽभ्युपगमेऽपि चैत्रा दिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वं । तथाहि यद्धर्मावच्छिन्ने यद्धाऽवच्छिन्नस्य सम्बन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्माऽवच्छिन्ने जिज्ञासिततद्धर्माऽवच्छिन्नसम्बन्धबोधवाक्यस्योत्तरता । यदाहुः जिज्ञासितपदार्थस्य संसर्गो येन गम्यते तदुत्तरमिति प्रोक्तमन्यदा भासशाब्दितमिति यथा घटत्वाऽवच्छिन्ने जिशासितधर्माऽवच्छिन्नसम्बन्धबोधकस्य कस्माद् घट इति प्रश्नवाक्यस्य घटत्वाऽवच्छिन्ने जिज्ञासितदण्डत्वाऽवच्छिस्य हेतुहेतुमद्भावबोधकं दण्डाद् घट इति वाक्यमुत्तरम् प्रकृते तु गत इति नेति वेत्युत्तरं युज्यते । किंचोक्तप्रश्ने न सत्तासाधकव्यापारस्य जिज्ञास्यत्वाऽनवगमात्कथमेतस्योत्तरत्वम् तथात्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादानाद्यनपदोपस्थाप्ययत्ननिष्पाद्यत्वबोधनैवोत्तरत्वसिद्धया न ततोधातोव्यापारार्थकत्वसिद्धिरत आह । उत्पत्त्यादीति ।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140