Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 22
________________ २२ वैयाकरणभूषणसारे माप स्यादिति चेत् इष्टापत्तः। आसन्नविनाशं कञ्चिदुद्दिश्य किं करोतीति प्रश्नेऽस्ती त्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणादस्तीत नोत्तरमिीत ॥ १२ ॥ नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्यच कर्मत्वात्सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरित्यत आह । फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धम्भिभेदे सकर्मक उदाहृतः॥१३॥ (एकनिष्ठतायाम् ) एकमात्रनिष्ठतायाम् भिन्नाधिकरणास्तितायामिति यावत् । तेन गम्यादौ फलस्य कर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । (अकर्मकः) यथा भ्वादिः ( तयोः) फलव्यापारयोः आश्रयभेदे सकर्मक इत्यर्थः उक्तश्च वाक्यपदीये । आत्मानमात्मना विभ्रदस्तीत व्यपदिश्यते । अन्तर्भावाच तेनासौ कर्मणा न सकर्मकइति । (विभ्रदिति ) तेन स्वधारणानुकूलोव्यापारोऽत्रापि गम्यतइति भावः तेन कर्मणा सकर्मकत्वन्तु न अन्तर्भावात् फलांशेन सामानाधिकरण्यसत्वादित्यर्थः ( आत्मानमिति ) जानाति इच्छतीत्यादौ च द्वावात्मानौ शरीरात्मा अन्तरात्मा च । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवतीति कर्मवत्कर्मणेति सूत्रीयभाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमित्यवधेयम् ॥ १३ ॥ .

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140