Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
धावथीनर्णयः वर्जनादिरूपक्रियावाचके हिरुग्* नानेत्यादावतिव्याप्तिरिति भ्वादिगणपठितत्वमुक्तम् ॥ ९॥
तावन्मात्रोक्तौ चाह । सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्॥१०॥
गणपठितत्वमात्रोक्तौसर्वनामाव्ययानामपि धातुत्वं स्यात् । तथा च याः पश्यतीत्यादौ, “आतोधातोः" इत्याकारलोपापतिः । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान सर्वनाम्नां ग्रहणं तस्य लाक्षणिकत्वात् इत्यत आह वेत्यादि । अव्यये वा इत्यादावतिप्रसंगः । तादृशस्यैव गणेऽपि पाठेन निर्णयासम्भवात् । तथा च विकल्पार्थको वातीति प्रयोगः स्यादिति भावः । नच गतिगन्धनार्थनिर्देशो नियामकः, तस्यार्थानादेशनादिति भाष्यप-लोचनया आधुनिकत्वलाभात् ॥१०॥
* यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन क्रियात्वाऽसम्भवात् । किं तु तावन्मात्रोतावाणवयत्यादावतिव्याप्तिर्वाध्या तेषां धातुत्वे च शास्त्रविषयतया साधुत्वाऽऽपत्तेरिति बोध्यम् ।
भीमसेनादिप्रणीतत्वाऽवगतेरित्यर्थः । तथा च भूवादिसूत्रे परिमाणग्रहणं कर्त्तव्यम् कुताह्येतत् भूशब्दोधातुसंज्ञको भवति न पुन द्वेधशब्द इति यद्यप्यर्थनिर्देशसय सूत्रकृत्प्रणीतत्वमपि तथा च चुटू इति सूत्रे यदयमिरिक्तः कांश्चिन्नुमनुषक्तान पठति उवुन्दिर्निशामने स्कन्दितिशोषणयोरिति तेन नेरितामिदिद्विधिरिति भाष्ये उक्तं तथापि माध्ययप्रामाण्यात्सर्वधात्वर्थनिर्देशसयाऽपाणिनियत्वेन न तन्निर्देशसत्य नियामकतेति भावः चुलुम्पादीनां स्तम्भ्वादीनांच कास्यनेकाचआमिति वचनादुदित्करणाञ्च धातुतेति दिक् ॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140