Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
वैयाकरणभूषणसारे यति घटमितिवत् भवति घटमित्याप स्यात् धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् नचाख्यातार्थव्यापाराश्रयत्वेन कर्त्तत्वात् तत्संज्ञया कर्मसंज्ञायावाधान द्वितीयेति वाच्यम् आख्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वे पाचयति देवदत्तोविष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेः ग्रामं गमयाति देवदत्तोविष्णुमित्रामत्यत्र विष्णुमित्रस्याकर्तृतापत्तेः ग्रामस्यगमिकर्मतानापत्तेश्च । तथा च ग्रामाय गमयति देवदत्तोविष्णुमित्रमित्याप न स्यात् । “गत्यर्थकर्मणि द्वितीयाचतुर्यों चेष्टायामनध्वनीति" गत्यर्थकर्मण्येव चतुर्थीविधानात् । एतेन णिजन्ते आख्यातार्थ उभयम् तदाश्रयत्वादेवदत्तयज्ञदत्तयोः कर्तृतेत्यपास्तम्। किश्च तस्मिन् प्रयोगे आख्यातार्थइत्यस्यावश्यकत्वेनाख्यातशून्ये देवदत्तः पक्तेत्यादौ देवदत्तस्याकर्तृतापतेरिति दिक् । सूत्रानुपपत्तिमपि मानत्वेन प्रदशयन्नुक्तार्थस्य स्वोत्प्रोक्षितत्वं निरस्यति ( किश्चेति ) धातुसंज्ञाविधायकम् ( भूवादयोधातव ) इति सूत्रम् । तत्र भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोरेकशेषः । ततो भूवौ आदी येषां ते भूवादयः । तथा च भूप्रभृतयो वासदृशा धातवइत्यर्थः । तच्च क्रियावाचकत्वेन तथा च क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वं पर्यवसभम् । अत्र क्रियावाचित्वमात्रोक्तो
* अपास्तमिति । अयं भावः आख्यातस्य व्यापारद्वयाऽभिधायकत्वेनविष्णुमित्रस्य कर्तृत्वोपपादनेऽपि तत्कर्तृत्वस्याऽऽख्याताऽभिधानाद्देवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरं तृतीयादौर्लभ्यमेवमाख्यातार्थव्यापाराश्रयत्वस्यो भयोरप्यविशिष्टत्वात्प्रधानं व्यवहारोच्छेदापत्याहेतुमति चेत्यनुशासनविरोधश्चेति ।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140