Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
१६
वैयाकरणभूषणसारे ञ्चातिव्याप्तमित्याह (किंकृतं पकमिति)। कृना विवरणं प्रतातिश्च पक्कमित्यत्रापाति, तत्रापि भावना वाच्या स्यादिति भावः, नन्वस्तु तिङइव कृतामपि भावना वाच्येत्यत आह अपीति । तथाचोभयसाधारण्येन तत्प्रतीतेरुभयसाधारणो धातुरेव वाचकइति भावः ! भवद्रीत्या प्रत्ययार्थत्वात्माधान्यापत्तिश्चेतिं द्रष्टव्यम् ॥८॥ व्यापारस्य धात्वर्थत्वेसाधकान्तरमाह । किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि। किञ्च क्रियावाचकतां विना धातुत्वमेव न॥९॥ ____ कार्यमित्यत्र “ऋहलायेदिति" कर्मणि ण्यत् पचनीयमित्यादौ चानीयर आदिना ज्योतिष्टोमयाजी इत्यादौ करणे उपपदे कर्तरि णिनिः। एते च क्रियायोगमन्तरेणासन्तस्तद्वाच्यतां बोध यन्ति विना क्रियां कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यसम् भवात् । नच गम्यमानक्रियामादाय कारकयोगइति भाट्टरीतिर्युक्ता आख्यातेऽपि तथापत्तौ तत्रापि भावनाया वाच्यत्वासिद्धयापत्तेः। अथ लिंगसंख्यान्वयानुरोधात् कर्तुर्वाच्यत्वमावश्यकमिति तेनालेपाद्भावनान्वयः स्यादिति मतम् तर्हि संखयान्वयोपपत्तये आखयातेऽपि कर्ता वाच्यः स्यात्। पकवानित्यादौ कालकारकान्वयानुरोधाद्भावनाया अपि वाच्यत्वस्यावश्यकत्वाच्चेति भावः। अपिना हेत्वन्तरसमुच्चयः तथाहि नखैभिन्नो नखभिन्नः हरिणा त्रातो हरित्रात इत्यादौ "कर्तृकरणे कृता बहुलमिति,, समासो न स्यात् पुरुषोराज्ञः भाय्यो देवदत्तस्य इतिवदसामथ्यात् । नचाध्याहृत

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140