Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 14
________________ १४ वैयाकरणभूषणसारे आख्यातार्थव्यापाराश्रयत्वञ्च कर्तृत्वं वाच्यमित्यादि वदन्तं मामांसकम्मन्यं प्रत्याह । तस्मात्करोतिर्धातोः स्याद्व्याख्यानंनत्वसौ तिङां पकवान् कृतवान्पाकं किं कृतं पक्कमित्यपि ॥८॥ ( तस्मात् ) अभिप्रायस्थहेतोः सचेत्थम् । फलमात्रस्य धात्वर्थत्वे ग्रामोगमनवानिति प्रतीत्यापतिः संयोगाश्रयत्वात्। फलानुत्पाददशायां व्यापारसत्त्वे पाकोभवतीत्यनापत्तिः व्यापारविगमे फलसत्त्वे पाकोविद्यतइत्यापत्तिश्च । यत्तु भावप्रत्ययस्य घनादेर नुकूलव्यापारवाचकत्वान्नानुपपत्तिरिति तन्न कर्ताख्यातवत् “कतरि कृदि" त्यतएव तद्विधानलाभे भावे विधायकानुशासनवैय •पोस्तद्विरोधापत्तेश्च । अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेय मिति चेतर्हि धातुतएव सकलव्यापारलाभसम्भवेनाख्यातस्य पृथक्शक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवरणात्मा ( करोतिः धातोः) एव ( व्याख्यानं ) विवरणम् अतस्तदपि नाख्यातार्थत्वसाधकमिति भावः मीमांसकोक्तं बाधकमुद्धरन् तन्मतं दूषयात नत्वित्यादिना । नासौ तिङां व्याख्यानम् पकवानित्यादावनन्वयापत्तेः । अयं भावः। “प्रकृतिप्रत्ययौ सहाथ ब्रुतस्तयोः प्रत्ययार्थस्य प्राधान्यम्" इत्यत्राहि विशेष्यतया प्रकत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्योपस्थितिर्हेतुरिति काटर्यकारणभावः फलितः। तथा च पकवानित्यत्र पाकः कर्मकारकं, क्तवतुपत्ययार्थः कर्तृकारकम् । तयोश्वारुणाधिकरणरीत्या

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140