Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
धात्वर्थनिर्णयः। पूर्वदेशविभागोत्तरदेशसंयोगजनकत्वादुक्तदोषतादवस्थ्य मित्यपि वदन्ति । तस्मादावश्यकंसकर्मकाणां फलवाचकत्वम् अकर्मकाणान्तु तन्निविवादमेव भू सत्तायामित्याद्यनुशासनाच्च । अतएव "द्वयर्थः पचिरिति" भाष्यं सगच्छतइति दिक् ॥ ६॥
. एवं सिध्यतु फलव्यापारयोर्वाच्यत्वम् किन्तु आख्यातवाच्यैव सा भावना न धातोः, प्राधान्येन प्रतीयमानव्यापारस्य धात्वर्थतायाः"प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यप्राधान्यामति" न्यायविरुद्धत्वात् “तदागमे हि दृश्यतइति"* न्यायविरुद्धत्वाच। एवञ्च स्वयुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् ,
* इदं च यः प्रधानं स प्रत्ययार्थ इति न्यायाऽऽकार इत्यभिप्रेत्य, तन्मूलसूत्राऽऽलोचने तु यः प्रत्ययार्थः स प्रधानमिति न्यायाऽऽकारो लभ्यते तथाहि पशुना यजतेति श्रूयते तत्रैकवचनोपात्तमेकत्वं यागे विशेषणमुत प्रकृत्यर्थे इति संशये पशुपदार्थस्य यागं प्रति गुणत्वात्सम्भावितयावत्पशुकरणेन प्रधानाऽऽवृत्तौ प्रधानभंगाऽऽपत्त्या यावद्गुणं प्रधानाऽऽवृत्तेरयोगादेकत्वविशिष्टपशोर्विधाने त्वेकत्वस्य पशुविशेषणतया यागांगत्वाऽभावात्तदविवक्षितमेव स्यादित्यर्थकेन तत्रैकत्वमयज्ञांगमर्थस्य गूणभूतत्वादिति सूत्रेण पूर्वपक्षिते शब्दवत्तूपलभ्यते तदाऽऽगमे हि दृश्यते तस्य ज्ञानं यथाऽन्येषामिति सिद्धान्तसूत्रम् शब्दवत् शब्दवाच्यम् यथा भवति तथोपलभ्यते एकत्वं हि यतस्तदागमे एकवचनसमवधाने दृश्यते ऽतस्तस्य प्राधान्येन प्रतीतिर्यथाऽन्येषामरुणादीनामित्यर्थः । एवं च समानप्रत्ययोपात्तत्वप्रत्यासत्त्या विभक्तयर्थकरणाऽन्वितस्याऽरुणाऽधिकरणन्यापन प्रथमं क्रियायामन्वयः पश्चात्प्रकृत्यर्थे तथा च पश्वकत्वोभयकरणको याग इति बोधनैकत्वस्य यागांगत्वाऽवगमानानेकपशुभिर्याग इति तद्भावः। प्राधान्यं च प्रकृत्यर्थाऽविशेषणत्वमेव प्रत्ययार्थमादाय न्यायावताराद्यः प्रत्ययार्थ इति भागस्य न्यायघटकत्वं प्रकृते आख्याताऽसमवधाने भावना ऽबोधात्तस्याऽप्राधान्येन भानमिति तत्संगतिरिति बोध्यम् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 140