Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
थात्वर्थनिर्णयः। क्रियाद्वारा सामर्थ्य वाच्यं दध्योदनः गुड़धाना इत्यादिवत् , अन्यथा तत्रापि अनेन व्यञ्जनं भक्ष्येण मिश्रीकरणमिति समासो न स्यादिति वाच्यम् । तत्र विध्यानर्थक्या* दगत्या तथास्वीकारेऽपि हरिकृतमित्यादौ । साक्षाद्धात्वर्थान्वयेनोपपद्यमानस्य कर्तृकरणइत्यस्याक्षेपेण परम्परासम्बन्धे प्रवृत्त्ययोगात् । न चैकस्यां क्रियायामन्वयित्वमेव सामर्थ्यमिति शङ्क्यम्, अमूर्यम्पश्येत्यादेरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सोमृत्तिकयेत्यत्र कृतसमृत्तिकइत्यापत्तेः । न चात्र समासविधायकाभावः, ( सह सुपा) इत्यस्य सत्त्वात् , अन्यथा असमर्थसमासोऽपि विधायकाभावान स्यादिति । किञ्च भावनायास्तिङर्थत्वे भाव
* अन्नेनव्यानमित्यादेरपि पदावधित्वेन समर्थपरिभाषाविषय तया स्वतोऽसमर्थदध्यादिपदानां समासविधानवैयापत्त्योपसेवनादिक्रियाध्याहाराभ्युपगमेऽपीत्यर्थः।
+ कृधातोर्व्यापाराथकत्वस्वीकारात्तनिरूपितकर्तृत्वस्य हरौ सा. क्षात्सत्वादध्याहारं विनैव शास्त्रचारितार्थ्ये हरित्रात इत्यादावध्याहृतपक्रयाद्वारकासामर्थ्यमादाय तत्प्रवृत्तौ मानाभावादित्यर्थः। कृञोव्या. पाराऽर्थकत्वाऽनभ्युपगमेत्वध्याहृताऽर्थस्याऽपि सामर्थ्याऽनुपपादकत्वाच्छास्त्रवैयर्थ्यमेष स्यादिति सूचनाय कृतमित्युक्तम्। आदिना शरकृ. तमित्यादिकरणतृतीयातत्पुरुषपरिग्रह। केचित्तु कृदर्थ कत्रेव तृतीयार्थकोऽऽक्षिप्तभावनामादाय हरित्रात इत्यादौ नखैभित्र इत्यादौ तु करणसामर्थेनाऽध्याहृतां तामादाय सामोपपत्तौ न तदनुपपत्तिर्धातोर्भावनावाचकत्वसाधिका । एवं च कृत्रः फलाऽर्थकत्वेऽपि न समासोऽनुपपत्तिरित्याहुः । तश्चिन्त्यम् ।
+ मृत्तिकायाः करणतया सर्वपदार्थस्य कर्मतया कृधात्वर्थाऽन्वयित्वादिति भावः।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140