Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown
View full book text
________________
वैयाकरणभूषणसारे तीति यत्नार्थककरोतिना विवरणाद्यनएवमर्थ इति वाच्यम् । रथो गमनं करोति वीजादिना अंकुरः कृत इति दर्शनात् कुजोयनार्थकताया असिद्धेः, किंश्च भावनाया अवाच्यत्वे घटं भावयतीत्यत्रेव घटोभवतीत्यत्रापि द्वितीया स्यात् नचात्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया बाधान द्वितीयेति वाच्यम् अनुगतकर्तृत्वस्य स्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् कृत्याश्रयत्वस्य कारकचक्रमयोक्तृत्वस्य वा घटादावभावात् धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात आप च * भावनाया अवाच्यत्वे धातूनां सकर्मकत्वाकर्मकत्वविभाग उच्छिन्नः स्यात् स्वार्थफलव्यधिकरणव्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वं भावनायावाच्यत्वमन्तरणासम्भवि, अन्यतमत्वं तत्वमिति चेन एकस्यैवार्थभेदनाकम्भकत्वसकर्मकत्वदर्शनात् तदेतदभिसन्धायाह (कृज इति ) अयं भावः व्यापारवाच्यत्वपक्षे फलमारूपाऽवच्छेदकत्वमादाय ताशव्यवहारो यदि तदा सर्वत्रैव तथास्त्विति भावः।
* नन्वचेतने कृत्याऽऽश्रयत्वरूपकर्तृत्वस्य बाधेऽपीतरव्यापारा ऽनधीनत्वप्रकारकविवक्षाया विषयव्यापाराश्रयत्वरूपकारकचक्रप्रयो. क्तृत्वरूपमेव तत्कर्तृसंशानियामकम् । व्यापारस्य क्वचित्कृतिः। क्वचित्संयोगादिरेव ताशव्यापाराश्रय एव स्वतन्त्रः कर्त्तति सूत्रे स्वतन्त्र पदार्थः तत्सूत्रप्रणयनसामर्थ्यात् । तदुक्तं कारक इति सूत्रे भाष्ये । प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये परतन्त्रा किं पुनः प्रधान कर्ता, कथं ज्ञायते का प्रधानमिति यत्सर्वेषु कारकेषु कर्ता प्रवर्तयिता भवतीति स्थाली काष्ठैः पचतीत्यादौ स्थाल्येव तत्त्वेन विवक्षितेति तद्भावः । वक्ष्यते वाऽधिकमुपरिष्टात् । मीमांसकमते प्रसक्तदूषणोद्धृ. तिरपि वक्ष्यमाणैव । एवं च घटगतताहव्यापारस्यैव स्वातन्त्र्यविवक्षया कर्तृत्वस्य निराबाधेन न द्वितीयाप्रसंगोऽत आह । अपिचेति ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 140