Book Title: Vaiayakaran Bhushansara Author(s): Unknown Publisher: Unknown View full book textPage 8
________________ वैयाकरणभूषणसारे कर्तृत्वात्तद्योतकाः कर्तृयोतका इतिसमुदायार्थः (द्योतयन्ति) तात्प र्य ग्राहयन्ति ॥ ३॥ .. नन्वेवं "क्रमादसुनारद इत्यबोधि स इत्यादौ पच्यते ओदनः स्वयमेवेत्यादौ च व्याभिचारः। कर्मणः कतृत्वविवक्षायां कर्त्तरि लकारे सति “कर्मवत् कर्मणातुल्यक्रिय" इत्यतिदेशेन यगात्मनेपदचिचिण्वदिटामतिदेशाधगादिसत्त्वेऽपि कर्तुरेव बोधाव्यापार एवाश्रयान्वयाच, अबोधीत्यत्रापि बुध्यतेः कर्तरि लुङ् तस्य दीपजनेति चिण "चिणोलुमिति" तस्य लुक् इति साधनादित्याशकायामाह। उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् ॥ तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम्॥४॥ __ (कर्मकर्तृविषयादौ) पच्यते ओदनः स्वयमेवेत्यादौ अत्र खेकौदनाभिन्नाश्रयकः पाकानुकूलोव्यापार इति बोधः । क्रमादित्यादिपदग्राह्यम् अत्र सामान्यविशेषज्ञानपूर्वक एकमारदविषयकज्ञानानुकूलः कृष्णाभिन्नाश्रयकोऽतीतोव्यापार इति बोधः । ( यथोचितमिति) सकर्मकधातुसमभिव्याहृतभावसाधारणविधिविधेयाचिण्यगादिकर्म घोतकमिति भावः ॥ ४ ॥ ___एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य (फलव्यापारयोरिति ) प्रतिज्ञातं धातोर्व्यापारवाचित्वं लडाद्यन्ते भावनाया अवाच्यत्वं वदतः माभाकरादीन् माति व्यवस्थापयति । व्यापारोभावना सैवोत्पादना सैव च क्रिया॥ कृञोऽकर्मकतापत्तेन हि यत्नोऽर्थ इष्यते॥५॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 140