Book Title: Vaiayakaran Bhushansara
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 7
________________ धात्वर्थनिर्णयः।.. र्मतयान्वयस्य प्रतिपिपादयिषितत्वात अध्याहारे अनन्वयापत्तेश्च एवञ्च भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयम् किन्तु आखयातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थिति वनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावोद्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्य मृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक् । इत्थञ्च पचतीत्यत्रकाथयिका पाकानुकूला भावना, पच्यते इत्यत्रकायिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदशादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याभेदान्वयः। घटो नश्यतीत्यत्रापि घटाभिनाश्रयकोनाशानुकूलोव्यापारइति बोधः सच व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् । अतएव तस्यां सत्यांनश्यति, तदत्यये नष्टः, तद्भावित्वे नझ्यतीति प्रयोगः । देवदस्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नाश्रयको ज्ञानेच्छाधनुकूलो वर्तमानो व्यापारइति बोधः सचान्तत आश्रयतैवेति रीत्योह्यम् ॥२॥ __ नन्वाख्यातस्य कर्तृकर्मशक्तत्वे पचतीत्यत्रोभयबोधापत्तिः कर्तृमात्रबोधवत् कर्ममात्रस्याऽपि बोधापत्तिरित्यतस्तात्पर्यग्राहकमाह । फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः॥ व्यापारेशनमाद्यास्तु द्योतयन्त्याश्रयाऽन्वयम् तडादयः फले आश्रयाऽन्वयं द्योतयन्ति फलान्वय्याश्रयस्य कर्मत्वात् सद्योतकाः कर्मद्योतकाः ब्यपाराऽन्वय्याश्रयस्य

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 140