________________
१७६]
[उत्तराध्ययनसूत्रे अथ पञ्चदशभिः स्थानैः सुविनीत इत्युच्यते । तानि पञ्चदश स्थानानि इमानि, य एतैः पञ्चदशभिर्लक्षणैर्युक्तो भवति स विनीत इत्यर्थः । प्रथमं यो नीचावर्ती, नीचम् अनुद्धतम्, गुरोः शय्यासनात् अनुच्चम्, तत्र वर्तितुं स्थातुं वा शीलं यस्य स नीचावर्ती । गुरोः शय्यातो गुरोरासनाद्वा नीचे शय्यासने शेते तिष्ठति वा इत्यर्थः १, पुनर्योऽचपलः, न चपलोऽचपलः, अचपलत्वं चतुर्धा भवति । गत्या अचपलः १ स्थित्या अचपलः २, भाषया अचपलः ३, भावेन अचपलः ४ गत्या अचपलः शीघ्रचारी न भवती १, स्थित्या अचपलस्तिष्ठन्नपि शरीरहस्तपादादिकं अचालयन् स्थिरस्तिष्ठति २, भाषया अचपलोऽसत्यादिभाषी न स्यात् ३, भावेन अचपलः सूत्रे अर्थे अनागते-असमाप्ते सत्येव अग्रेतनं न गृह्णाति ४, इति अचपलस्यार्थः ५। पुनर्योऽमायी, मायास्यास्तीति मायी, शुभमिष्टान्नाहारादौ आचार्यादीनामवञ्चकः ३ । पुनर्योऽकुतूहलः, न विद्यते कुतूहलं यस्य स अकुतूहलः, कुहकेन्द्रजाल-भगलविद्या-नाटकादीनां न विलोकक इत्यर्थः ४ ॥१०॥
अप्पं चाहिक्खिवई, पबंधं च न कुव्वई।
मित्तिज्जमाणो भयई, सुयं लडुं न मज्जइ ॥११॥ पुनर्योऽल्पमधिक्षिपति, अल्पशब्दोऽत्र अभावार्थः, कमपि न अधिक्षिपति, कमपि कठिनैर्वचनैर्न निर्भर्त्सयतीत्यर्थ: ५ । च पुनः प्रबन्धं न करोति, प्रचुरकालं क्रोधं न रक्षति, दीर्घरोषि न स्यादित्यर्थः ६ । मित्रीयमाणं भजते मित्रत्वकर्तारं सेवते । कोऽर्थः ? यः कश्चित् स्वस्मै विद्यादानाद्युपकारं कुर्यात्तस्मै स्वयमपि प्रत्युपकारं करोति, कृतघ्नो न स्यादित्यर्थः ७ । पुनः श्रुतं लब्ध्वा न माद्यति, मदं न करोति ८, इत्यष्टमस्थानम् ॥ ११ ॥
न य पावपरिक्खेवी, न य मित्तेसु कुप्पई ।
अप्पियस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥ च पुनः पापपरिक्षेपी न भवति, पापेन परिक्षिपति-तिरस्करोतीत्येवंशीलः पापपरिक्षेपी । समितिगुप्त्यादिषु स्वयं स्खलनं कृत्वा आचार्यादिभिः शिक्ष्यमाणः सन् आचार्यादीनामेव मर्मोद्घाटको न भवति ९ । न च मित्रेभ्यः कुप्यति, अपराधे सत्यपि मित्रोपरि क्रोधं न करोति १० । पुनर्यो मित्रस्य, मम मित्रमित्यङ्गीकृतस्य तस्याप्रियस्य च, अपराधे सत्यपि पूर्वकृतं सुकृतमनुस्मरन् रहस्यपि कल्याणमेव-भव्यमेव भाषते, न च तस्य दूषणं वदतीत्यर्थः ॥१२॥
कलहडमरं वज्जेइ, बुद्धे य अभिजाइए।
हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चई ॥१३॥ पुनर्यः कलहडमरं वर्जयति, तत्र कलह-वाक्ययुद्धं त्यजति । डमरं-चपेटा-मुष्टिलत्तादिभिर्युद्धम्, तयोरुभयोर्वर्जको यो भवति १२ । पुनर्बुद्धिमान् बुद्धोऽवसरज्ञो भवति ।