Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 288
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८ ] [ २७९ तया च रजोहरणोपकरणानि दत्तानि । दशसहस्त्रराजभिः समं प्रव्रजितो भरतः । शेषचक्रिणस्तु सहस्रपरिवारेण प्रव्रजिताः । ततः शक्रेण वन्दितोऽसौ ग्रामाकरनगरेषु भ्रमन् भव्यसत्वान् प्रतिबोधयन् एकपूर्वलक्षं यावत् केवलिपर्यायं पालयित्वा परिनिर्वृतः । तत्पट्टे च शक्रेणादित्ययशा नृपोऽभिषिक्तः । इति भरतदृष्टान्तः ॥ ३४ ॥ पुनस्तदेव महापुरु षदृष्टान्तेन दृढयति सगरो वि सागरंतं, भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा, दयाइ परिनिव्वुडे ॥ ३५ ॥ हे मुने ! सगरोऽपि सगरनामा नराधिपोऽपि दयया संयमेन परिनिर्वृत्तः, कर्मभ्यो मुक्तः । अत्र नराधिपशब्देन अपिशब्दाद् द्वितीयश्चक्रवर्त्त्यधिकारादनुक्तोऽपि चक्र्येव गृह्यते । किं कृत्वा ? भरतवर्षं - भरत क्षेत्रमर्थाद्भरत क्षेत्रराज्यं त्यक्त्वा, पुनः केवलं परिपूर्णमेकच्छत्ररूपमैश्वर्यं हित्वा-त्यक्त्वा, कीदृशं भरतवर्षं ? सागरान्तं समुद्रान्तसहितम् चुल्लहिमवत्पर्वतं यावद्विस्तीर्णं भरतक्षेत्रराज्यमित्यर्थः ॥ ३५ ॥ अत्र सगरचक्रवर्तिदृष्टान्तः, तथाहि अयोध्यायां नगर्यामीक्ष्वाकुकुलोद्भवो जितशत्रुनृपोऽस्ति, तस्य भार्या विजयानाम्यस्ति । सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति । जितशत्रुराज्ञ्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तम्, स च द्वितीयस्तीर्थकर इति । सुमित्रयुवराजपल्या यशोमत्या सगरनामा द्वितीयश्चक्रवर्ती प्रसूतः । तौ द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायिताः । कियता कालेन जितशत्रुराज्ञा निजे राज्येऽजितकुमारः स्थापितः, सगरश्च यौवराज्ये स्थापितः । सहोदरसुमित्रसहितेन जितशत्रुनृपेण दीक्षा गृहीता । अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता । सगरस्तूत्पन्नचतुर्दशरत्नः साधितषट्खण्डभरतक्षेत्रो राज्यं पालयति । तस्य पुत्राः षष्टिसहस्त्रसङ्ख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्ठो जहूनुकुमारो वर्तते । अन्यदा जहूनुकुमारेण कथञ्चित्सगरः सन्तोषितः । स उवाच जहूनुकुमार ! यत्तव रोचते तन्मार्गय ? जहूनुरुवाच- तात ! ममास्त्ययमभिलाषः । यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वीं परिभ्रमामि । सगरचक्रिणा तत्प्रतिपन्नम् । प्रशस्ते मुहुर्ते समरचक्रिणः समीपात्स निर्गतः, सबलवाहनोऽनेकजनपदेषु भ्रमन् प्राप्तोऽष्टापदपर्वते । सैन्यमधस्तान्निवेश्य स्वयमष्टापदपर्वतमारूढः दृष्टवांस्तत्र भरतनरेन्द्रकारितं मणिकनकमयं चतुर्विंशतिजिनप्रतिमाधिष्ठितं स्तूपशतसङ्गतं जिनायतनम् । तत्र जिनप्रतिमा अभिवन्द्य जहूनुकुमारेण मन्त्री पृष्टः, केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितम् ? मन्त्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जहूनुकुमारोऽवदत्-अन्यः कश्चिदष्टापदसदृशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः । चतसृषु दिक्षु पुरुषास्तद्गवेषणाय

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350