Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९]
[३३१ सन्दंशतुण्डैः सन्दंशाकारंतुण्डं येषां ते सन्दंशतुण्डाः तैः सन्दंशाकारमुखैः । पुनः कीदृशैः ? लोहतुण्डैर्लोहवत्कठोरमुखैः । किं कुर्वनहं ? विलपन् - विलापं कुर्वन् ॥ ५९॥'
तण्हाकिलंतो धावंतो, पत्तो वेयरणिं नइं।
जलं 'पाहंति चिंतितो, खुरधाराहि विवाइओ ॥६०॥ हे पितरौ ! पुनरहं तृष्णाक्रान्तस्तृषाभिर्व्याप्तो धावन वेतरणी प्राप्तः सन् जलं पिबामीति चिन्तयन् क्षुरधाराभिर्व्यापादितः । कोऽर्थः ? यावदहं तृषाक्रान्तो मनसि पानीयं पिबामीति चिन्तयामि, तावद्वैतरणीनद्या ऊर्मिभिः- कल्लोलैर्हतो दुःखीकृतः, वैतरणीनद्या जलं हि क्षुरधाराप्रायं गलच्छेदकमस्तीति भावः ॥६०॥
उण्हाभितत्तो संपत्तो, असिपत्तं महावणं ।
असिपत्तेहिं पडतेहिं, छिन्नपुव्वो अणंतसो ॥६१॥ हे पितरौ ! पुनरहमुष्णाभितप्त - आतपपीडितश्छायार्थी असिपत्रमहावनं प्राप्तः । असिवत्खड्गवत्पत्रं येषां तेऽसिपत्राः खड्गपत्रवृक्षास्तेषां महावनमसिपत्रमहावनं गतः सन्नसिपत्रैः पतद्भिरनन्तशोऽनेकवारं छिन्नपूर्वो द्विधा कृतः ॥६१ ॥
मुग्गरेहिं मुसंढीहिं, सूलेहिं मूसलेहि य ।
गयासंभग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६२ ॥ हे पितरावहं मुद्गरैर्लोहमयैर्गुरुजैः, च पुनर्मुसंढीभिः शस्त्रविशेषैलपेटाभिधानैः शस्त्रैर्वा, तथा शूलैस्त्रिशूलैश्च पुनर्मुशलैः पुनर्गदाभिर्लोहमयीयष्टिभिरनन्तशो दुःखं प्राप्तः । कथंभूतैरेतैर्मुद्गरादिभिः शस्त्रैः ? सम्भग्नगात्रैश्चूर्णितशरीरैः ॥६२॥
खुरेहिं तिक्खधारेहिं, छुरियाहि कप्पणीहि य । कप्पिओ फालिओ छिनो, उक्वित्तो य अणेगसो ॥६३॥ हे पितरौ ! क्षुरै रोममुण्डनसाधनैः, पुनस्तीक्ष्णधाराभिः क्षुरिकाभिः, कल्पनीभिःकर्तरीभिरहं कल्पितो वस्त्रवत्खण्डितः, पुनः स्फाटितो वस्त्रवदूर्ध्वं विदारितः, पुनश्छिन्नः क्षुरिकाभिः कर्कटीव खण्डितः । पुनरुत्कृतः शरीराद् दूरीकृतचर्मेत्यर्थः । एवमनन्तशो वारंवार कदर्थितः ॥६३ ॥
पासेहिं कूडजालेहिं, मिओ वा अवसो अहं ।
वाहिओ बद्धरुद्धो य, बहुसो चेव विवाइओ ॥६४ ॥ १ पाहंति-पास्यामि-इति बृहवृत्त्याम्।

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350