Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३३६]
[उत्तराध्ययनसूत्रे एवममुना प्रकारेण मृगवत्समुत्थितः संयमक्रियानुष्ठानं प्रत्युद्यतो भिक्षुर्मृगचर्या चरित्वाङ्गीकृत्योर्वा दिशं प्रतिक्रमेत-प्रव्रजति । तथाविधरोगोत्पत्तावपि चिकित्साभिमुखो न भवति । पुनः कीदृशः साधुः ? एवमेवानेनैव प्रकारेण मृगवदनेकगोऽनेकस्थाने स्थितोऽनियतस्थानविहारी, यथा मृगो वनखण्डे नवीने नवीने स्थाने विहरति, तथा नानास्थानविहारीत्यर्थः । तथाहं मृगचर्ययाऽऽतङ्कस्याऽभावे भक्तपानादिगवेषणतयेतस्ततो भ्रमणेन भक्तपानं गृहीत्वा, संयमात्मानं धृत्वा पश्चादूर्वा दिशम्, मुक्तिरूपां दिशं प्रतिक्रमिष्यामि, सर्वोपरिस्थो भविष्यामीति भावः ॥ ८३ ॥
जहा मिए एग अणेगचारी, अणेगवासे धुवगोयरे य । एवं मुणी गोयरियप्पविटे, नो हीलए नोवि य खिंसइज्जा ॥८४॥
यथा मृगएकोऽसहायी सन्ननेकचारी भवति,अनेकभक्तपानाचरणशीलो नानाविधभक्तपानग्रहणतत्परः स्यात्, पुनर्यथा मृगोऽनेकवासः स्यात्, पुनर्यथा मृगो ध्रुवगोचरो भवेत्, ध्रुव-सदा गोचरो यस्य स ध्रुवगोचरः, निश्चयेन भ्रमणादेव लब्धाहारः स्यात् । एवममुना प्रकारेण मृगदृष्टान्तेन मुनिः साधुर्गोचर्यां भिक्षाटनं प्रविष्टः सन् नो हीलयेत्, अनिष्टं नीरसं लब्ध्वेदं कुत्सितं विरसमित्यादिवाक्यैर्न निन्दयेत् । तथा अपि निश्चयेन पुनर्नो खिसयेत्, आहारे पानीये वाऽलब्धे सति कमपि गृहस्थं ग्रामं नगरमात्मानं वा न निन्देत् ॥८४ ॥
मिगचारियं चरिस्सामि, एवं पुत्ता जहासुहं ।
अम्मापिऊर्हि अणुन्नाओ, जहाइ उवहिं तओ ॥८५॥ यदा मृगापुत्रेण पितरौ प्रतीत्युक्तम्-हे पितरावहं मृगचर्यां चरिष्यामि, यथा भवदने मृगचर्योक्ता, तामङ्गीकरिष्यामि, साधुमार्गं ग्रहीष्यामि । यदा मृगापुत्रेणैवमुक्तं तदा मातापितरौ बूतः-हे पुत्र ! यद्येवं तदा यथासुखम्, यथा तव सुखं स्यात्, यथा भवतेऽभिरु चितं सुखमिति यथासुखं तथा कर्तव्यम्, अस्माकमाज्ञास्ति । ततो मातृपितृभ्यामनुज्ञातो मृगापुत्रः कुमार उपधि - परिग्रहं सचित्ताचित्तरूपं परित्यजति ॥ ८५ ॥
मिगचारियं चरिस्सामि, सव्वदुक्खविमोक्खणि।
तुब्भेहि समणुन्नाओ, गच्छ पुत्त जहासुहं ॥ ८६ ॥ सर्वं परिग्रहं त्यक्त्वा पुनर्मंगापुत्रो वदति-हे पितरौ ! अहं भवद्भ्यामनुज्ञातः सन् मृगचर्यामङ्गीकरिष्यामि । कीदृशीं मृगचर्यां ? सर्वदुःखविमोक्षणीम्, सर्वविपत्तिविमोचिनीम् । तदा मृगापुत्रं प्रति पितरौ वदतः- हे पुत्र ! यथासुखं गच्छ। दीक्षां गृहाण ॥८६॥
एवंसोअम्मापियरो, अणुमाणित्ताण बहुविहं। ममत्तं छिंदए ताहे, महानागो व्व कंचुकं ॥८७ ॥

Page Navigation
1 ... 343 344 345 346 347 348 349 350