Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३३८]
[उत्तराध्ययनसूत्रे त्यक्तगारवो-गारवत्रयरहितः, ऋद्धिगारव-रसगारव-सातागारव इत्यादिगर्वत्रयरहितः । पुनः कीदृशः ? सर्वभूतेषु समो रागद्वेषपरिहारात् समस्तप्राणिषु त्रसेषु स्थावरेषु च समस्तजीवेषुसदृशः ॥९०॥
लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । - -
समो निंदापसंसासु, तहा माणावमाणओ ॥ ९१ ॥ तथा पुनर्मंगापुत्रो लाभे, आहारपानीयवस्त्रपात्रादीनां प्राप्तौ, तथाऽलाभेऽप्राप्तौ, तथा सुखे तथा दुःखे, तथा पुनर्जीविते मरणे समः समानवृत्तिः । तथा पुनर्निन्दासु तथा प्रशंसासु स्तुतिषु, तथा माने आदरे, अपमानेऽनादरे, मानश्चापमानश्च मानापमानौ, तयोर्मानापमानयोः समः सदृशः । केनाप्यादरे प्रदत्ते सति मनसि न प्रहृष्टो भवति, केनाप्यपमाने प्रदत्ते सति मनसि दूनो न भवति ॥ ९१ ॥
गारवेसु कसाएसु, दंडसल्लभएसु य । नियत्तो हाससोगाओ, अनियाणो अबंधणो ॥ ९२ ॥
पुनः स मृगापुत्रः कीदृशो जातः ? गारवेभ्यो निवृत्तः, पुनः कषायेभ्यः क्रोधादिभ्यो निवृत्तः । च पुनर्दण्डशल्यभयेभ्यो निवृत्तः, दण्डनयं-मनोवाक्कायानामसद्वयापारो दण्ड उच्यते, तस्मानिवृत्तः । पुनः शल्यत्रयानिवृत्तः- मायाशल्यम्, निदानशल्यम्, मिथ्यादर्शनशल्यं चैतच्छल्यत्रयम्, ततो निवृत्तः । तथा पुनः सप्तभयेभ्यो निवृत्तः- सप्त भयानीमानिइहलोकभयम् १, परलोकभयम् २, आदानभयम् ३, अकस्माद्भयम् ४, मरणभयम् ५, अयशोभयम् ६, आजीविकाभयम् ७ च । एवं सप्तभयानि । अत्र सर्वत्र प्राकृतत्वात्पञ्चम्यां सप्तमी । पुनः कीदृशो मृगापुत्रः ? हास्यशोकाभ्यां निवृत्तः । पुनः कीदृशः ? अनिदानो निदानरहितः । पुनः कथंभूतः ? अबन्धनो - रागद्वेषबन्धनरहितः ॥ ९२ ॥
अणिस्सिओ इहं लोए, परलोए अणिस्सिओ ।
वासीचंदणकप्पो य, असणे अणसणे तहा ॥ ९३ ॥ पुनः कीदृशः ? अनिश्रितो-निश्रारहितः, कस्यापि साहाय्यं न वाञ्छति । तथा पुनरिह लोके राज्यादिभोगे, तथा परलोके देवलोकादिसुखेऽनिश्रितो-निश्रां न वाञ्छते । पुनः स मृगापुत्रो वासीचन्दनकल्पः, यदा कश्चिद्वास्या-पशुना शरीरं छिनत्ति, कश्चिच्चन्दनेन शरीरमर्चयति, तदा तयोरुपरि समानकल्प:- सदृशाचारः । तथा पुनरशने-आहारकरणे, तथाऽनशने - आहाराऽकरणे सदृशः ॥ ९३ ॥
अप्पसत्थेहिं दारेहिं, सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणे ॥ ९४ ॥

Page Navigation
1 ... 345 346 347 348 349 350