Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३४०]
[ उत्तराध्ययनसूत्रे पुनर्गाथायुग्मेन सम्बन्धः । भो भव्या ! अनुत्तरां-सर्वोत्कृष्टां धर्मधुरं धर्मरथस्य भार धारयध्वम् । कथंभूतां धर्मधुरम् ? सुखावहां-सुखप्राप्तिहेतुभूतम् । पुनः कीदृशां धर्मधुरम् ? निर्वाणगुणावहाम्, निर्वाणस्य गुणा निर्वाणगुणा-मोक्षगुणाः, अनन्तज्ञानदर्शनान्तसुखानन्तायुरनन्तवीर्यरूपास्तेषामावहा-पूरका निर्वाणगुणावहाँ, तां निर्वाणगुणावहाम् । किं कृत्वा धर्मधुरं धारयध्वम् ? धनं दुःखविवर्धनं विज्ञाय, च पुनर्ममत्वं बन्धमिव संसारस्य बन्धनं विज्ञाय । कीदृशं धनं ममत्वं च ? महाभयावहं महाभयदायकम्, चौराग्निनृपादिभ्यः कष्टप्रदाम् । पुनः किं कृत्वा ? च पुनर्मूगाया राज्याः पुत्रस्य मृगापुत्रस्योत्तमंप्रधानं चरितंचरित्रं-चारित्रवृत्तान्तम्, तथा तस्य मृगापुत्रस्य भाषितम्, मातृपितृभ्यां संसारस्यानित्यतोपदेशदानं निशम्य हदि धृत्वा । कीदृशं मृगापुत्रस्य चरित्रम् ? 'तवप्पहाणं' तपःप्रधानम्, पुनः कीदृशं मृगापुत्रस्य चरित्रम् ? 'गइप्पहाणं' गत्या प्रधानम्, गतिर्मोक्षलक्षणा, तया प्रधानं श्रेष्ठम्, मोक्षगमनाहम् । पुनः कीदृशं मृगापुत्रस्य चरित्रम् ? त्रिलोकविश्रुतं त्रिलोकप्रसिद्धम् । कीदृशस्य मृगापुत्रस्य ? महाप्रभावस्य, रोगादीनामभावेन दुष्करप्रतिज्ञा प्रतिमारूपाभिग्रहाणां पालनेन महामहिमान्वितस्य । पुनः कीदृशस्य मृगापुत्रस्य ? महायशसः, महद्यशो यस्य स महायशास्तस्य महायशसः, सर्वदिग्व्यापिकीर्तेः । इत्यहं मृगापुत्रस्य चरितं तवाग्रे ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह ॥ ९९ ॥
इति मृगापुत्रीयमेकोन-विंशतितममध्ययनमर्थतः सम्पूर्णम् ॥ ९९ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायां श्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामेकोनविंशतितमं मृगापुत्रीयमध्ययनमर्थतः सम्पूर्णम् ॥९९ ॥
इति श्री लक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायां
प्रथमभागः

Page Navigation
1 ... 347 348 349 350