Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 348
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९ ] [ ३३९ पुनर्मृगापुत्रोऽप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यो निवृत्त इति शेषः । पुनः कीदृश: ? अप्रशस्तद्वारेभ्यो निवर्तनादेव सर्वतः पिहिताश्रवः पिहिता - निरुद्धा आश्रवा:- पापगमनद्वाराणि येन स पिहिताश्रवः । पुनः कीदृश: ? अध्यात्मध्यानयोगैः प्रशस्तदम-शासन:, अधि आत्मनि ध्यानयोगा अध्यात्मध्यानयोगास्तैरध्यात्मध्यानयोगैर्मनसि शुभव्यापारैः प्रशस्ते दमशासने यस्य स प्रशस्तदमशासनः । दम-उपशमः, शासनंसर्वज्ञसिद्धान्तः, यस्य शुभध्यानयोगैरुपशमश्रुतज्ञाने शुभे वर्तते इत्यर्थः ॥ ९४ ॥ एवं नाणेण चरणेण, दंसणेण तवेण य । भावणाहिय सुद्धाहिं, सम्मं भावित्तु अप्पयं ॥ ९५ ॥ बहुयाणि य वासाणि, सामन्नमणुपालिया । मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥ ९६ ॥ युग्मम् ॥ उभाभ्यां गाथाभ्यां वदति-तु- पुनर्मृगापुत्रो मुनिर्मासिकेन भक्तेन सिद्धिं प्राप्तो मोक्षं गतः । मासे भवं मासिकम्, तेन मासिकेन भक्तेन, मासोपवासेनेत्यर्थः । कथंभूतां सिद्धिम् ? अनुत्तरां-प्रधानाम्, सर्वस्थानकेभ्य उत्कृष्टं स्थानमित्यर्थः, जन्मजरामृत्यूपद्रवेभ्यो रहितत्वात्, किं कृत्वा ? एवममुना प्रकारेण ज्ञानेन मतिश्रुतादिकेन, पुनश्चरणेन यथाख्यातेन, पुनर्दर्शनेन शुद्धसम्यक्त्वश्रद्धारूपेण, पुनस्तपसा द्वादशविधेन, च पुनर्भावनाभिर्महाव्रतसंबंधिनीभिः पञ्चविंशतिसंख्याभिर्भावनाभिः । अथवाऽनित्यादिभिर्द्वादशप्रकाराभिरात्मानं सम्यक् प्रकारेण भावयित्वा, निर्मलं कृत्वा । कथंभूताभिर्भावनाभिः ? शुद्धाभिर्निदानादिदोषमलरहिताभिः । पुनः किं कृत्वा ? बहूनि वर्षाणि श्रामण्यं यतिधर्ममनुपाल्याराध्य ॥ ९५-९६॥ एवं करंति संबुद्धा, पंडिया पवियक्खणा । 'विणिवट्टंति भोगेसु, मियापुत्ते जहा मिसी ॥ ९७ ॥ सम्बुद्धा:- सम्यग्ज्ञाततत्त्वाः पुरुषाः, पण्डिता - हेयोपादेयबुद्धियुक्ताः, अत एव प्रकर्षेण विचक्षणा- अवसरज्ञाः, एवं कुर्वन्ति भोगेभ्यो विशेषेण निवर्तन्ते । क इव ? यथाशब्द इवार्थे, मृगापुत्रर्षिरिव । यथा मृगापुत्रर्षिर्भोगेभ्यो विनिवृत्तस्तथान्यैरपि चतुरैर्भोगेभ्यो विनिवर्तितव्यमिति भावः । अत्र 'मिसी' त्ति मकारः प्राकृतत्वादलाक्षणिकः ॥ ९७ ॥ महप्पभावस्स महाजसस्स, मियाए पुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोयविस्सुयं ॥ ९८ ॥ वियाणिया दुक्खविवद्धणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं (महं ॥ ९९ ॥ तिबेमि ॥ १ विणियति अन्य संस्करणे ॥ २ महं- मू. नास्ति, अन्य संस्करणेऽस्ति, तत्र व्याख्या एवं 'महंति' अपरिमितमाहात्म्यतया महतीम्

Loading...

Page Navigation
1 ... 346 347 348 349 350