Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 346
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९ ] [ ३३७ एवममुना प्रकारेण स मृगापुत्रो मातापित्रोरनुज्ञा लात्वा 'ताहे' इति तदा तस्मिन् काले बहुविधं ममत्वं छिनत्ति । इदं धनं मम इदं गृहं मम, इदं कुटुम्बं ममेति बुद्धि त्यजतीत्यर्थः । कः किमिव ? महानागो महासर्पः कञ्चकमिव यथा महासर्पो निर्मोकं त्यजति, तथा मृगापुत्रः सर्वं ममत्वं त्यजतीति भावः ॥ ८७ ॥ इड्डी वित्तं च मित्ते य, पुत्ते दारं च नायओ । रेणुयं व पडे लग्गं, निधुणित्ताण निग्गओ ॥ ८८ ॥ मृगापुत्र एतत्सर्वं निर्धूय त्यक्त्वा निर्गतः, संसाराद् गृहाच्च निःसृतः । किं किं त्यक्तमित्याह-ऋद्धिर्हस्त्यश्वादिः, वित्तं धनधान्यादिः च पुनर्मित्राणि सहजसहवर्धितसहपांशुक्रीडितानि सुहृदः, पुनः पुत्राण्यङ्गजाः, पुनर्दाराः स्त्रियः, पुनर्ज्ञातयः स्वजनाः क्षत्रियाः, एतत्सर्वं परित्यज्य प्रव्रजितः । किमिव ? पटे लग्नं रेणुमिव-नूतनवस्त्रे लग्नं रज इव । यथा कश्चिच्चतुरो मनुष्यो वस्त्रे लग्नं रजो निर्धूनोति, तथा मृगापुत्रोऽपीत्यर्थः ॥ ८८ ॥ पंचमहव्वयजुत्तो, पंचसमिओ तिगुत्तिगुत्तो य । सब्भितरबाहिरिए, तवोकम्मंमि उज्जुओ ॥ ८९ ॥ तदा मृगापुत्रः कीदृशो जातः ? पञ्चमहाव्रतयुक्तो जातः, पुनः पञ्चसमितिसहितः, ईर्याभाषैषणाऽऽदाननिक्षेपणोच्चारप्रश्रवणखेलजल्लसिङ्घाणपारिष्ठापनिकासमितियुक्तः । पुनिस्त्रगुप्तिगुप्तो मनोवाक्कायगुप्तिसहितः । पुनः साभ्यन्तरबाह्यतपः कर्मण्युद्यतः । पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि य, अब्भितरओ तवो होइ ॥ १ ॥ अणसणमूणोयरिआ, वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया, य बज्झो तवो होइ ॥ २ ॥ [नवतत्त्वप्रकरणे गा. ३५-३६ ] द्वादशविधतपः कर्मणि सावधानो जातः ॥ ८९ ॥ निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समय सव्वभूएस, तसेसु थावरेसु य ॥ ९० ॥ पुनः कीदृशो मृगापुत्रः ? निर्ममो वस्त्रपात्रादिषु ममत्वभावरहितः । पुनः कीदृश: ? निरहङ्कारोऽहङ्काररहितः । पुनः कीदृश: ? निःसङ्गः बाह्याभ्यन्तरसंयोगरहितः । पुनः कीदृश: ? १ प्रायश्चित्तं विनयो, वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानम् उत्सर्गोऽपि च, आभ्यन्तरं तपो भवति ॥ १ ॥ २ अनशनमूनोदरिका, वृत्तिसंक्षेपनं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥ २ ॥

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350