Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९]
[३३५ एगभूओ अरण्णे वा, जहा य चरई मिओ।
एवं धम्मं चरिस्सामि, संजमेण य तवेण य ॥७८ ॥ हे पितरौ ! यथा मृगोऽरण्येटव्याम्, 'वा' इति पादपूरणे । एकीभूत-एकाकी सन् चरति, स्वेच्छया भ्रमति । एवमनेन प्रकारेण मृगस्य दृष्टान्तेनाहं संयमेन सप्तदशविधेन, तपसा द्वादशविधेन, धर्मं श्रीवीतरागोक्तं चरिष्याम्यङ्गीकरिष्यामि ॥ ७८ ॥
जया मियस्स आयंके, महारन्नंमि जायई ।
अच्छंतं रुक्खमूलंमि, को णं ताहे तिगिच्छई ॥७९॥ यदा महारण्ये महाटव्यां मृगस्यातको रोगो जायते, तदा तं मृगं वृक्षमूले संतिष्ठन्तं को वैद्यश्चिकित्सते ? परिचर्यां कुरुते ? सेवां कुरुते ? 'णं' इति वाक्यालङ्कारे ॥ ७९ ॥
को वा से ओसहं देइ, को वा से पुच्छई सुहं ।
को वा से भत्तपाणं च, आहारित्ता पणामए ॥८॥ हे पितरौ ! तस्य रोगग्रस्तस्य मृगस्य क औषधं ददाति ? वाऽथवा तस्य मृगस्य कश्चिदागत्य सुखं पृच्छति ? भो मृग ! तव समाधिर्वर्तते, इति कः पृच्छति ? वाऽथवा तस्य मृगस्य भक्तपानमाहारपानीयमाहृत्यानीय ददाति ? ॥८०॥
जया य से सुही होइ, तया गच्छड़ गोयरं ।
भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य ॥८१॥ हे पितरौ ! यदा च स मृगः सुखी भवति, स्वभावेन रोगमुक्तो भवति, तदा गोचरं गच्छति, भक्ष्यस्थाने गच्छति । तत्र च भक्तपानस्यार्थं वल्लराणि-हरितस्थलानि, च पुनः सरांसि-जलस्थानानि विलोकयतीत्यध्याहारः ॥८१॥
खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहिं वा ।
मिगचारियं चरित्ताणं, गच्छई मिगचारियं ॥ ८२ ॥ हे पितरौ ! स निरोगो मृगो मृगचर्यया - मृगभोजनपानविधिना चरित्वा, वल्लरेभ्योहरितप्रदेशेभ्यः खादित्वा, निजभक्ष्यं भुक्त्वा, तथा सरोभ्यस्तटाकेभ्यः पानीयं पीत्वा मृगो मृगचर्या गच्छति, इतस्तत उत्प्लवनात्मिकां गतिं प्राप्नोतीत्यर्थः ॥ ८२ ॥
एवं समुट्ठिओ भिक्खू, एवमेव अणेगओ । मिगचारियं चरित्ताणं, उढे पक्कमई दिसं ॥ ८३ ॥

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350