Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 343
________________ ३३४] [ उत्तराध्ययनसूत्रे हे पितरौ ! मया नरकेषु वेदना वेदिता, असाताऽनुभूता । कथंभूता वेदना ? तीव्रचण्डप्रगाढा, तीव्रा चासौ चण्डा च तीव्रचण्डा, तीव्रचण्डा चासौ प्रगाढा च तीव्रचण्डप्रगाढा । तीव्रा - रसानुभवाधिक्यात्, चण्डोत्कटा- वक्तुमशक्या, गाढा - बहुलस्थितिका । पुनः कीदृशा वेदना ? घोरा-भयदा, यस्यां श्रुतायामपि शरीरं कम्पते । पुनः कीदृशा ? अतिदुस्सहाऽत्यन्तं दुरध्यासा, दुःखेनानुभूयते, अत एव महाभया । पुनः कीदृशा वेदना ? भीमा या श्रूयमाणापि भयप्रदा । एकार्थिकाश्चैते शब्दा, वेदनाधिक्यसूचकाः ॥ ७३ ॥ जारिसा माणुसे लोए, ताया दीसंति वेयणा । इत्तोणंतगुणिया, नरसु दुक्खवेयणा ॥ ७४ ॥ हे तात! मनुष्यलोके यादृश्यः शीतोष्णादिका वेदना दृश्यन्ते, इतस्तच्छीतोष्णवेदनाभ्यो नरकेषु दुःखवेदना अनन्तगुणा वर्तन्ते ॥ ७४ ॥ सव्वभवेसु असाया, वेयणा वेड्या मए । निमिसंतरमित्तंपि, जं साया नत्थि वेयणा ॥ ७५ ॥ हे पितः ! मया वेदना सर्वभवेषु स्थावरत्रसभवेष्वसाता वेदिता, शीतोष्णक्षुत्पिपासादिकाऽनुभूता । हे पितः ! निमेषान्तरमात्रमपि यत्सातावेदना - सुखानुभवनं नास्ति । तदा दीक्षायां किं दुःखम् ? कथमहं भवद्भिः सुखोचित इत्युक्तः । मया तु सर्वत्र भवे दुःखमेवानुभूतम् ॥ ७५ ॥ तं बिंतऽम्मापियरो, छंदेण पुत्त पव्वय । नवरं पुण सामन्ने, दुक्खं निप्पडिकम्मणा ॥ ७६ ॥ अथ पितरौ मृगापुत्रं ब्रूतः, हे पुत्र ! छन्दसा - स्वकीयेच्छ्या प्रव्रज-दीक्षां गृहाण । कस्त्वां निषेधयति ? नवरं शब्देनायं विशेषोऽस्ति । पुनः श्रामण्ये - चारित्रे एतदुःखं वर्तते, यन्निष्प्रतिकर्मतास्ति, रोगोत्पत्तौ प्रतीकारो न विधेयः । निर्गता प्रतिकर्मता निष्प्रतिकर्मता, चिकित्सा न कर्तव्या, न चिन्तनीयापि, सावद्यवैद्यकं न कारयितव्यम् ॥ ७६ ॥ सो बितऽम्मापियरं, एवमेयं जहा फुडं । usai को कुई, अरण्णे मियपक्खिणं ॥ ७७ ॥ ततोऽनन्तरं मातापितरौ प्रति स मृगापुत्रः कुमारो ब्रूते - हे पितरौ ! एतद्भवद्भ्यामुक्तमेवं यथा स्फुटमवितथं भवदुक्तं सत्यमित्यर्थः । हे पितरावरण्ये मृगाणां पक्षिणां च कः प्रतिकर्मणां कुरुते ? यदा हि मृगा व्याधिपीडिता वने भवन्ति, पक्षिणो वा वने रोगपीडिता भवन्ति, तदा को वैद्य आगत्य रोगचिकित्सां कुरुते ? न कोऽपि कुरुते इत्यर्थः ॥ ७७ ॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350