Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 341
________________ ३३२] [उत्तराध्ययनसूत्रे __हे पितरौ ! पुनरहं बहुशो वारंवार पाशैर्बन्धनैस्तथा कूटजालैः 'कुडिवागुरादिभिर्मूग इव'वाहिओ' इति भोलवितस्तथा बद्धो रुद्धश्च बाह्यप्रचारानिषिद्धः । यथा मृगं वञ्चयित्वा पाशे निक्षिपन्ति, कूटजाले च पातयन्ति, तथाहं वञ्चितो बद्धो रुद्धश्च । च पुनरेव निश्चयेनावशः-परवशः सन् व्यापादितो - मारितः ॥६४॥ गलेहिं मगरजालेहिं, मच्छो वा अवसो अहं । उल्लिओ फालिओ गहिओ, मारिओ य अणंतसो ॥६५॥ ___ हे पितरौ ! पुनरहं गलैर्मत्स्यानां पाशैर्मकरजालैर्मत्स्यजालैमत्स्य इव विद्धगलोऽभूवम् । पुनर्गृहीतो मकररूपधारिभिः परमाधार्मिकैर्बलादुपादत्तः।पुनः 'उल्लिओ' इति उल्लिखितश्चीरितः । पुनः स्फाटितः काष्टवद्विदारितः । पुनरनन्तशो मारितो गईभ इव कुट्टितः ॥६५॥ वीदंसएहिं जाले हिं, लेप्पाहिं सउणो विव । गहिओ लग्गो य बद्धो य, मारिओ य अणंतसो ॥६६॥ हेपितरौ ! पुनरहं शकनिरिव-पक्षीव, विशेषेण दंशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तादृग्बन्धनैः पक्षिबन्धनविशेषैर्बलाद्गृहीतः । वीतंसोमृगपक्षिणां' इति हैमः । पुनरहं जालैगृहीतः, पुनर्लेप्याभिः शिरीषलेपनक्रियाभिर्लग्नः श्लिष्टः, पुनरहं बद्धो दवरकादिना चरणग्रीवादौ नियन्त्रितः । पुनर्मारितः- प्राणैविहीनः कृतः ॥६६॥ कुहाडपरसुमाईहि, वड्डइहि दुमो इव । कुट्टिओ फालिओ छिन्नो, तच्छिओ य अणंतसो ॥६७॥ हे पितरौ ! पुनरहं कुठारैः पर्वादिकैः काष्ठसंस्करणसाधनप्रहरणैर्वार्द्धकिभिः काष्ठवद्भिर्दुम इव कुट्टितः स्फाटितश्छिन्नश्च । यथा काष्ठवद्भिर्वृक्षः कुठारैः पर्वादिभिः प्रहरणैः कुट्यते स्फाट्यते छेद्यते, तथाहं परमाधार्मिकैर्वारंवारं पीडितः ॥६७ ॥ चवेडमुट्ठिमाईहिं, कुमारेहिं अयंपि व । ताडिओ कुट्टिओ भिन्नो, चुण्णिओ य अणंतसो ॥६८॥ हे पितरौ ! पुनरहं परमाधार्मिकैर्देवैश्चपेटाभिर्हस्ततलैः, पुनर्मुष्टयादिभिर्बद्धहस्तैः, आदिशब्दालत्ताजानुकूर्परप्रहारैरनन्तशस्ताडितः कुट्टितः, भिन्नो - भेदं प्रापितः, चूर्णितः । कैः कमिव ? कुमारैर्लाहकारैरय इव - लोह इव । यथा लोहकारेण लोहः कुट्यते भेद्यते चूर्ण्यते श्लक्ष्णीक्रियते ॥ ६८ ॥ तत्ताई तंबलोहाई, तउयाइं सीसगाणि य । पाईओ कलकलंताई, आरसंतो सुभेरवं ॥ ६९ ॥ १ सौ. २ ४॥यो.

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350