Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 339
________________ ३३०] [ उत्तराध्ययनसूत्रे कोलशुनकैर्वराहकुकुररूपधारिभिर्देवैः पुनरहं स्फाटितः - पुरातनवस्त्रवद्विदारितः । पुनरहं तैर्वराहकुर्कुटैः स्फाटितो दन्तैदंष्ट्राभिश्च वृक्षवच्छिन्नश्च । पुनः कीदृशोऽहं ? कूजन्नव्यक्तं .. शब्दं कुर्वन् । पुनः कीदृशोऽहं ? विस्फुरनितस्ततस्तडफडन् ॥५५॥... असीहिं अयसिवन्नाहि, भल्लीहिं पट्टिसेहि य । ..... छिन्नो भिन्नो विभिन्नो य, उइन्नो पावकम्मुणा ॥ ५६ ॥ हे पितरौ ! पुनरहं पापकर्मणोदीर्णः प्रेरितः सन्नरकेष्वसिभिः- खड्गैः, पुनर्भल्लीभिःकुन्तैस्त्रिशूलैर्वा, पुनः पट्टिशैः प्रहरणविशेषैश्छिन्नो द्विधा कृतः भिन्नो विदारितः, च पुनर्विभिन्नो विशेषेण सूक्ष्मखण्डीकृतः । कथंभूतैरसिभिः? अतसीकुसुमवर्णैः श्यामवर्णरित्यर्थः॥५६॥ * अवसो लोहरहे जुत्ते, जलंते समिलाजुए । चोईओ तोत्तजुत्तेहि, रोज्झो वा जह पाडिओ ॥५७ ॥ हे पितरौ ! पुनरहं नरके-लोहरथेऽवशः-परवशः सन् परमाधार्मिकदेवैर्व्वलत्यग्निना जाज्वल्यमाने समिलायुगे युक्तो-योत्रितः । समिला-युगरन्ध्रक्षेपणीयकीलिका । युगस्तु धूसरः । उभयोरपि वह्निना प्रदीप्तत्वं कथितम् । तत्राग्निना ज्वलमाने रथेऽहं योत्रितस्तोत्रयोकौनॊदितः-प्रेरितः, तोत्राणि-प्राजनकानि पुराणकादीनि ।योक्त्राणि-नासाप्रोतबद्धरज्जुबन्धनानि, तैः प्रेरितः । पुनरहं 'रोज्झो वा' इति गवय इव पातितः, यष्टिमुष्ठ्यादिना हत्वा पातितः । वा शब्दः पादपूरणे, यथाशब्द इवार्थे ॥ ५७॥ हुयासणे जलंतंमि, चियासु महिसो विव । दड्डो पक्को य अवसो, पावकम्मेहिं पावियो ॥५८ ॥ हे पितरौ ! पापकर्मभिरहं प्रावृतो-वेष्टितः सन् ज्वलति हुताशने जाज्वल्यमानेऽग्नौ दग्धो-भस्मसात्कृतः । पुनरहं पक्वो वृन्ताकादिवद्भटित्रीकृतः । कीदृशोऽहं ? अवशःपरवशः । अहं क इवाग्नौ दग्धः पक्वश्च ? चितास्वग्निषु महिष इव, यथात्र पापा: 'पडुकं बद्ध्वाग्नौ प्रज्वालयन्ति भटित्रीकुर्वन्ति, तथा तत्राहं परमाधार्मिकदेवैर्विक्रियारचिताग्नौ दग्धः पक्वश्च ॥५८॥ बला संदंसतुंडेहिं, लोहतुंडेहि पक्खीहिं । विलुत्तो विलवंतोहं, ढंकगिद्धेहिं णंतसो ॥५९ ॥ __ हेपितरावहमनन्तशो-बहुवारं ढङ्कगझैपक्षिभिर्गध्रपक्षिभिश्च बलाद्विलुप्तकुन्थितः, विशेषेण लुप्तो विलुप्तः, नासानेत्रात्रकालेयादिषु चुण्टित इत्यर्थः । कथंभूतै बैगुधैश्च ? १ पट्टिश-शब्दः प्रहरणविशेषेऽस्ति न पिट्टिशः । द्रष्टव्यः-शब्दरत्नमहोदधिः, अन्यवृत्त्यामपि पट्टिश एव ॥ २पाओ. ३ छहायो. ४ काकैः ।

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350