Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 337
________________ ३२८] । [उत्तराध्ययनसूत्रे कीदृशे चातुरन्ते ? जरामरणकान्तारे, जरामरणाभ्यामतिगहनतया कान्तारं-वनं जरामरणकान्तारं, तस्मिन् जरामरणकान्तारे ॥४७॥ जहा इहंअगणी उण्हो, इत्तोअणंतगुणोतहिं।। नरएसु वेयणा उण्हा, असाया वेइया मए ॥४८॥ हे पितरौ ! येषु नरकेष्वहमुत्पन्नस्तेषु नरकेषु मयोष्णाः स्पर्शनेन्दियदुःखदा असातावेदना वेदिता भुक्ताः । कीदृशा उष्णाः ? यथेह मनुष्यलोकेऽग्निरुष्णो वर्तते, इतोऽग्नेः स्पर्शात्तत्र नरकेष्वनन्तगुणोऽग्निस्पर्शः । तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति गम्यते ॥ ४८ ॥ जहा इह इमं सीयं, इत्तोणंतगुणं तहिं । नरएसु वेयणा सीया, असाया वेइया मए ॥४९॥ यथेह मनुष्यलोके इदं प्रत्यक्षं शीतं वर्तते, इतः शीतात्तत्र नरकेषु मया शीता स्पर्शनेन्द्रियदुःखदाऽसातावेदनाऽनन्तगुणाधिका भुक्ताऽनुभूता ॥ ४९ ॥ कंदंतो कंदुकुंभीसु, उड्डपाओ अहोसिरो ।। हुयासणे जलंतमि, पक्कपुव्वो अणंतसो ॥५०॥ हे पितरावहं कन्दुकुम्भीषु - पाकभाजनविशेषासु लोहमयीषु हुताशने देवमायाकृते वह्नावनन्तशो - बहून् वारान् पक्वपूर्वः, पूर्वं पक्व इति पक्वपूर्वः । कीदृशोऽहम् ? ऊर्ध्वपाद-ऊर्ध्वचरणः, च पुनरधःशिरा अधोमस्तकः ।अहं किं कुर्वन् ? क्रन्दन् पूत्कृति कुर्वन् । कीदृशे हुताशने ? ज्वलति देदीप्यमाने ॥५०॥ महादवग्गिसंकासे, मरुमि वइरवालुए। कलंबवालुयाए व, भट्ठपुव्वो अणंतसो ॥५१॥ हे पितरौ ! कलम्बवालुकाया नद्या मरूंमि वालुकानिवहेऽनन्तशो वारंवारमहं दग्धपूर्वः । कलम्बवालुका नरकनदी, तस्याः पुलिनधूल्यां भ्रष्टपूर्वः, यथात्र चणकादिधान्यानि भ्राष्ट्रे भृज्यन्ते, तथाहमपि बहुशो दग्धः । कथंभूते मरौ ? महादवाग्निसंकाशे महादावानलसदृशे दाहकशक्तियुक्ते । पुनः कीदृशे मरौ ? वज्रवालुके, वज्रवालुका यस्य स वज्रवालुकस्तस्मिन् वज्रवालुके ॥५१॥ रसंतो कंदुकुंभीसु, उड़े बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अणंतसो ॥ ५२ ॥

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350