Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९]
[३२७ भुंज माणुस्सए भोए, पंचलक्खणए तुमं ।
भुत्तभोगी तओ जाया, पच्छा धम्मं चरिस्ससि ॥४४॥ हे पुत्र ! मानुष्यकान्, मनुष्यस्येमे मानुष्यकास्तान् मानुष्यकान् मनुष्यसम्बन्धिनः पञ्चलक्षणान् पञ्चविधान् भोगांस्त्वं भुंक्ष्वाऽनुभव । हे जात ! हे पुत्र ! ततः पश्चाद् भुक्तभोगीभूय धर्म - यतिधर्म चरिष्यस्यङ्गीकरिष्यसि । इदानीं तव भोगानुभवसमयोऽस्तीति, न पुनर्भोगत्यागावसर इति भावः ॥ ४४ ॥
'सो वि अम्मा पियरो, एवमेयं जहा फुडं ।
इहलोए निप्पिवासस्स, नत्थि किंचिवि दुक्करं ॥ ४५ ॥ अथ मृगापुत्रो बूते ।हेपितरावेवमिति यथा भवद्भ्यां प्रोक्तं तत्तथैव।यथा प्रव्रज्याया दुष्करत्वं स्फुट-प्रकटं वर्तते तदसत्यं नास्ति । तथापीह लोके निष्पिपासस्य, पिपासायास्तृष्णाया निर्गतो निष्पिपासस्तस्य निष्पिपासस्य-निःस्पृहस्य पुरुषस्य किञ्चिदपि दुष्करं नास्ति । निःस्पृहस्य तृणं जगदित्युक्तेः।यः स्पृहावान् भवति तस्य परिग्रहत्यागो दुष्कर एव । परं निरीहस्य साधुधर्मः सुकरएव तेनाहं निःस्पृहोऽस्मि, मया सुखेन साधुधर्मः कर्तव्यः ॥ ४५ ॥
सारीरमाणसा चेव, वेयणाओ अणंतसो ।
मए सोढाओ भीमाओ, असई दुक्खभयाणि य ॥ ४६ ॥ हे पितरौ ! मया शारीरमानस्यो वेदना अनन्तशोऽनन्तवारान् सोढा अनुभूताः । चैव पादपूरणे । च पुनरसकृद्वारंवारं दुःखानि भयानि सोढानि । कीदृशा वेदनाः ? भीमाभयानकाः दुःखानां भयानां च भीमशब्दो विशेषणेन प्रतिपाद्यः । कीदृशानि दुःखानि भयानि च ? भीमानि भयोत्पादक्रानि । दुःखानि च भयानि च दुःखभयानि । अथवा दुःखहेतूनि भयानि दुःखभयानि, राजविड्वराग्निचौरधाटीप्रमुखाणि, तानि वारंवारमनुभूतानीत्यर्थः ॥ ४६॥
जरामरणकंतारे, चाउरते भयागरे ।
मए सोढाणि भीमानि, जम्माणि मरणाणि य ॥ ४७ ॥ पुनर्मूगापुत्रो वक्ति-हे पितरौ ! चातुरन्ते संसारे भीमानी-भयदानि जन्मानि च पुनर्मरप्रानि मया सोढान्यनुभूतानि । चत्वारो देव-मनुष्य-तिर्यग्नरकरूपा भवा अन्ता-अवयवा यस्य स चतुरन्तः, चतुरन्त एव चातुरन्त इति व्युत्पत्तिः । अर्थात्संसारस्तस्मिंश्चातुरन्ते संसारे। १ अत्र - तं बितऽम्मापियरो - इति बृहद्वृत्त्याम् अन्यसंस्करणे च । तत्र 'अम्मापियरो' इति द्वितीयाद्विवचनम्, अत्र आमन्त्रणपदम्।

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350