Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 334
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९] [३२५ कावोया जा इमा वित्ती, केसलोओ य दारुणो। दुक्खं बंभवयं घोरं, धारेउं अ महप्पणा ॥ ३४ ॥ हे पुत्र ! साधुधर्मे पुनः कापोतीया वृत्तिर्वर्तते इति शेषः । कपोतानां पक्षिणां या इयं वृत्तिः सा कापोतीया । यथा हि पक्षिणो नित्यं शङ्किताः सन्तः स्वभक्षग्रहणे प्रवर्तन्ते । भक्ष्यं कृत्वा च पुनः सार्थे किमपि न गृह्णन्ति, कुक्षिशम्बला भवन्ति, तथा साधवोऽपि दोषेभ्यः शङ्कमाना आहारग्रहणे प्रवर्तन्ते । आहारं कृत्वा च किमपि सार्थे सञ्चयं न कुर्वन्ति । पुनः साधूनां केशलोचोऽपि दारुणो भयदोऽस्ति, पुनर्महात्मना साधुना ब्रह्मव्रतं धत्तुं दुःखमिति दुष्करम् । यद् ब्रह्मव्रतं महात्मना - महापुरुषेण ध्रियते तद् ब्रह्मव्रतं धत्तुं दुष्करमिति भावः । कीदृशं ब्रह्मव्रतं ? घोरम्, अन्येषामल्पसत्त्वानां भयदायकम् ॥३४॥ सुहोइओ तुमं पुत्ता, सुकुमालो समुज्जिओ। न हु सी पभू तुमं पुत्ता, सामण्णमणुपालिङ ॥ ३५ ॥ . हे पुत्र ! त्वं सुखोचितोऽसि । हे पुत्र ! पुनस्त्वं सुकुमालोऽसि, अथ चारित्रग्रहणाय समुद्यतोऽसि । परं त्वं श्रामण्यं साधुधर्ममनुपालयितुं प्रभुः समर्थो न भवसि ॥ ३५ ॥ जावज्जीवमविस्सामो, गुणाणं तुह महब्भरो। गुरुओ लोहभारुव्व, जो पुत्ता होइ दुव्वहो ॥३६ ॥ हे पुत्र ! यो गुणानां चारित्रस्य मूलोत्तरगुणानां महाभारः स लोहभार इव गुरुर्गरिष्ठो दुर्वहो भवति । कीदृशो गुणानां महाभारः ? यावज्जीवमविश्रामो विश्रामरहितः ।अन्योऽपि गुरुभारो यदा वोढुं न शक्यते, तदा क्वचित्प्रदेशे विमुच्य विश्रामो गृह्यते, परमेवं चारित्रगणभारः कदापि न मोचनीयो, यावज्जीवं धारणीयोऽस्ति ॥ ३६॥ आगासे गंगासोउ व्व, पडिसोउव्व दुत्तरो । बाहाहि सागरो चेव, तरिअव्वो गुणोयही ॥३७॥ __ हे पुत्र ! आकाशे गङ्गायाः श्रोतोवद्दुस्तरमिति योज्यम् ।यथा हिमाचलात्पतद्गङ्गाप्रवाहस्तरितुमशक्यस्तथा संयमो धारितुमशक्यः । प्रतीपजलप्रवाह इव दुस्तरो बाहुभ्यां सागरस्तरितव्यः । तथा गुणोदधिर्गुणानां ज्ञानादीनामुदधिर्गुणोदधिः, अथवा गुणा ज्ञानादयस्त एवोदधिर्गुणोदधिश्चारित्रसमुद्रस्तरणीयः ( कायवाङ्मनोनियन्त्रणेनैव तत्तरणातस्य च दुष्करत्वात् ) ॥३७॥ वालुयाकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिऊं तवो ॥ ३८ ॥ ૪૨

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350