Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९]
[३२९ हे पितरौ ! पुनरहं कन्दुकुम्भीषु लोहमयपाचनभाण्डविशेषेषु ऊर्ध्वं वृक्षशाखादौ बद्धः सन् परमाधार्मिकदेवैरिति बुद्ध्या मायमबद्धः कुत्रचिन्नष्ट्वा यायात्, तस्मादधोदेशे कुम्भी वर्तते, उपरिच वृक्षशाखायामहंबद्धः, करपत्रैः क्रकचैश्चानन्तशो-बहुवारंछिन्नपूर्वो द्विधा कृतः । यथा काष्टं बद्ध्वा करपत्रैः क्रकचैश्छिद्यते, तथाहं छिनः । लघूनि काष्टविदारणोपकरणानि क्रकचानि, बृहंति च तानि करपत्रकाण्युच्यन्ते । कीदृशोऽहं ? रसन्-विलपन् पूत्कृति कुर्वन्, पुनः कीदृशोऽहं ? अबान्धवः, न विद्यते बान्धवो हितकारी यस्य सोऽबान्धवः ॥५२॥
अइतिक्खकंटयाइन्ने, तुंगे सिंबलिपायवे ।
खेवियं पासबद्धेणं कड्डोकड्ढाहिं दुक्करं ॥ ५३ ॥ हे पितरावतितीक्ष्णकण्टकाकीर्णे तुङ्गे-उच्चे शम्बलपादपे कड्डाकड्डः कर्षापकर्षणैः परमाधार्मिककृतैः क्षेपितं-पूर्वोपार्जितं कर्मानुभूतम् । मया यानि कर्माण्युपार्जितानि तानि भुक्तानीति शेषः । कीदृशेन मया ? पाशबद्धेन-रज्वा 'सञ्जितेन । इदमपि दुष्करं कष्टं भुक्तमिति शेषः ॥ ५३॥
‘महजंतेसु उच्छू व, आरसंतो सुभेरवं ।
पीलिओमि सकम्मेहि, पावकम्मो अणंतसो ॥५४ ॥ हे पितरौ ! पुनरहं पापकर्मा, पापं कर्म यस्य स पापकर्मा-पापः । अनन्तशो बहुवारं स्वकर्मभिर्महायन्त्रेषु पीडितोऽस्मि । क इव ? ईक्षुरिव, यथेार्महायन्त्रेषु पीड्यते । अहं किं कुर्वन् ? सुभैरवं सुतरामत्यन्तं भैरवं-भयानकं शब्दमारसन्नाक्रन्दं कुर्वन् ॥५४॥
कूवंतो कोलसुणएहि, सामेहिं सबलेहि य ।
पाडिओ फालिओ छिन्नो, विफुरंतो अणेगसो ॥५५॥ हे पितरावनेकशोऽनेकवारं श्यामैः श्यामाभिधानैः, च पुनः शबलैः शबलाभिधानैः परमाधार्मिकदेवैर्भूमौ - पृथिव्यामहं पातितः । परमाधार्मिका हि पञ्चदशविधाः । अम्बे १ बध्नन्ति नन्ति च । अम्बरीसे २ चेव करीषे पचयन्ति । सामेय ३ शासनां यातनां च कुर्वन्ति । सबलत्ति य ४ अन्त्रादि निष्काशयन्ति । रुद्दो ५ कुन्तादौ प्रोतयन्ति । अवरुद्द६ अङ्गोपाङ्गानि मोटयन्ति । काले य ७ तैलादौ तलयन्ति । महाकाले ८ तहावरे स्वमांसानि खादयन्ति ॥१॥असिपत्ते ९ असिपत्रवनं विकुर्वन्ति । धणू १० धनुर्बाणैनन्ति । कुंभे ११ कुंभिपाके पचन्ति । वालुया १२ भ्राष्ट्रे पचन्ति । वेयणत्ति य १३ वैतरिण्यामवतारयन्ति । खरस्सरे १४ शाल्मल्यामारोप्य खरस्वरान् प्रकुर्वन्ति । महाघोसे १५ नश्यतो नारकान् मिलयन्ति, महाशब्देन भापयन्ति च । इति परमाधार्मिकाः । कीदृशैः श्यामैः शबलैश्च ? १ सङ्ग् - ग - १ -५ig.

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350