Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 335
________________ ३२६] [उत्तराध्ययनसूत्रे हे पुत्र ! वालुकाकवलो यथा निःस्वादस्तथा संयमः । असिधारागमनमसिधारायां गमनम्, खड्गधारायां चलनं यथा दुष्करं तथा तपश्चरितुं दुष्करं वर्तते ॥ ३८ ॥ अहीवेगंतदिट्ठीए, चरित्ते पुत्त दुच्चरे । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥३९॥ हे पुत्र ! साधुरहिरिवैकान्तदृष्टिः, एकान्तो निश्चयो यस्याः सैकान्तनिश्चया, एकान्तनिश्चया चासौ दृष्टिश्चैकान्तदृष्टिः । यथा सर्प एकाग्रदृष्ट्या चलति, इतस्ततश्च न विलोकयति, तथा साधुमार्गे साधुश्चरेत्, मोक्षमार्गे दृष्टिं विधाय चरेत् । कीदृशे चारित्रे ? दुश्चरे चरितुमशक्ये । यथा लोहमया यवाश्चर्वितव्या दुष्करास्तथा चारित्रमपि चरितुं दुष्करम् ॥ ३९ ॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करा । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ॥ ४० ॥ हे पुत्र ! यथाग्निशिखा दीप्ता सती ज्वलन्ती पातुं-पानं कर्तुं सुतरां दुष्करा, तथा तारुण्ये यौवने श्रमणत्वं चारित्रं कर्तुं दुष्करम् । यौवनावस्थायां हीन्द्रियाणि दुदर्मानीत्यर्थः ॥ ४० ॥ जहा दुक्खं भरेउं जे, होइ वायस्स कुत्थलो। तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥४१॥ हे पुत्र ! यथा वायोरिति वायुना भरितुं-पूरितुं कुत्थलो - वस्त्रमयं भाजनं दुष्करम्, तथा क्लीबेन हीनसत्वेन श्रामण्यं कर्तुं दुष्करम् ॥४१॥ जहा तुलाए तोलेउं, दुक्करं मंदरो गिरी । तहा निहुयं निस्संकं, दुक्करं समणत्तणं ॥ ४२ ॥ हे पुत्र ! यथा मन्दरो गिरिर्मेरुपर्वतस्तुलया तोलितुं दुष्करस्तथा निभृतं-निश्चलं निःशवं शंङ्कारहितं यथास्यात्तथा शरीरापेक्षारहितं श्रमणत्वं-साधुत्वं शरीरेण धर्तुं दुष्करम् ॥ ४२ ॥ जहा भुयाहि तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुत्तरं दमसागरो ॥ ४३ ॥ हे पुत्र ! यथा रत्नाकर:- समुद्रो भुजाभ्यां तरितुं दुष्करस्तथाऽनुपशान्तेन मनुष्येण दमसागरस्तरितुं दुष्करः । उपशान्तो जितकषायः, न उपशान्तोऽनुपशान्तस्तेन सकषायेण पुरुषेण दम इन्द्रियदमोऽर्थाच्चारित्रम्, दम एव दुस्तरत्वात्सागर इव दमसागरस्तरितुं दुःशक्य इत्यर्थः ॥४३॥

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350