Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 333
________________ ३२४] [उत्तराध्ययनसूत्रे . हे पुत्र ! अब्रह्मचर्यस्य - मैथुनस्य विरतिः कर्तव्या, सापि दुष्करा । हे पुत्र ! कामभोगरसज्ञेन पुरुषेणोग्रं-घोरं बम्भं-ब्रह्मचर्य महाव्रतं धर्तव्यम्, तदपि दुष्करं । लब्धभोगसुखास्वादस्य भोगेभ्यो निवृत्तिरत्यन्तं दुष्करेत्यर्थः ॥ २९ ॥ धणधन्नपेसवग्गेसु, परिग्गहविवज्जणं । ....... सव्वारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ ३० ॥ धनधान्यप्रेष्यवर्गेषु परिग्रहविवर्जनं कर्तव्यम्, धनं-गणिमादि, धान्यं-गोधूमादि, प्रेष्यवर्गो-दासदास्यादिवर्गः । धनं च धान्यं च प्रेष्यवर्गश्च धनधान्यप्रेष्यवर्गास्तेषु मोहबुद्धेविशेषेण वर्जनम्, एतदपि दुष्करम् । पुनः सर्वारम्भपरित्यागः कर्तव्यः, स चापि दुष्करः । पुनर्निर्ममत्वचिन्तनं दुष्करम्, न मे कश्चिदस्ति, अहमपि कस्यापि नास्मीति चिन्तनं दुष्करम् ॥३०॥ चउव्विहे वि आहारे, राईभोयणवज्जणा । सन्निहीसंचओ चेव, वज्जेयव्वो सुदुक्करं ॥ ३१ ॥ हे पुत्र ! पुनः साधुधर्मे चतुर्विधे आहारे रात्रिभोजनस्य वर्जना कार्या ।अशनपानखादिमस्वादिमानां चतुर्णामाहाराणामपि रात्रौ भोजनत्याग एव कर्तव्यः च पुनः सन्निधिघृतगुडादेरुचितकालातिक्रमेण स्थापनम् । ततः सन्निधिश्चासौ सञ्चयश्च सन्निधिसञ्चयः, एव निश्चयेन वर्जितव्यः, सोऽपि सुतरां दुष्करः ॥ ३१ ॥ छुहा तण्हा य सीउण्हे, दंसमसगवेयणा । अक्कोसा दुक्खसिज्जा य, तणफासा जल्लमेव य ॥३२॥ पुनर्हे पुत्र ! क्षुधा सहनीयेत्यध्याहारः । तृषा तृष्णा च सोढव्या, शीतोष्णं सहनीयम्, दंशमशकानां वेदना सहनीया, पुनराक्रोशा दुर्वचनानि, तत्सहनमपि दुष्करम् ।पुनर्दुःखशय्या उपाश्रयस्य दुःखं शय्यादुःखं तदपि सहनीयम् । संस्तारके तृणस्पर्शदुःखम्, पुनर्जल्लंमलपरीषहोऽपि सोढव्यः साधुना ॥ ३२ ॥ ताडणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥३३॥ पुनस्ताडना-चपेटाटक्करादिना हननम्, पुनस्तर्जनमगुल्यादिना निर्भर्त्सनं भयोत्पादनम्, पुनर्वधबन्धपरिषहाः सहनीयाः। तत्र वधो यष्ट्यादिभिर्हननम्, बन्धनं रज्ज्वादिना दमनम्, वधश्च बन्धश्च वधबन्धौ, तयोः परिषहाः सोढव्याः । पुनर्भिक्षाचर्याया दुःखम्, गृहस्थगृहे याचना कर्तव्या, तत्करणेऽपि दुःखमस्ति । तत्रापि याचनायां कृतायामप्यलाभताऽप्राप्तिर्भवेत्, तदापि दुःखं न कर्तव्यमेतदपि दुष्करम् ॥ ३३ ॥

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350