Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३२२]
[उत्तराध्ययनसूत्रे हे पितरौ ! यथा किम्पाकफलानां - विषवृक्षफलानां परिणामो भक्षणानन्तरपरिणतिसमयः सुन्दरो न भवति, एवं भुक्तानां भोगानामपि परिणामः सुन्दरो नास्ति ।यादृशं विषफलानां भक्षणम्, तादृशो भोगानां परिणामः । किम्पाकफलानि हिदर्शनेन रमणीयानि, भक्षणसमयेऽपि सुस्वादूनि भवन्ति, भुक्तेरनन्तरं प्राणापहारीणि, तथा विषयसुखान्यपि ॥१८॥
अद्धाणं जो महंतं तु, अपाहिज्जो पवज्जई ।
गच्छंतो सो दुही होइ, छुहातहाइ पीडिओ ॥१९॥ हे पितरौ ! यः पुरुषो महान्तमध्वानं - दीर्घ मार्गमपाथेयः-शम्बलरहितः सन् प्रव्रजति, स पुमान् क्षुधातृष्णाभ्यां पीडितः सन् दुःखी भवति ॥१९॥
एवं धम्मं अकाऊणं, जो गच्छइ परं भवं ।
गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिओ ॥२०॥ एवममुना प्रकारेण अशम्बलपुरुषदृष्टान्तेन यः पुरुषो धर्ममकृत्वा परभवं गच्छत्यन्यज्जन्म व्रजति, स गच्छन् दुःखी भवति । कीदृशः सः ? व्याधिरोगैः पीडितः ॥२०॥
अद्धाणं जो महंतं तु, सपाहेज्जो पवज्जइ ।
गच्छंतो सो सुही होइ, छुहातिण्हा विवज्जई ॥२१॥ हेपितरौ ! यः पुरुषो महान्तमध्वानं - दीर्घ मार्ग सपाथेयः - शम्बलसहितः सन् प्रव्रजति, स पुरुषः क्षुधातृष्णाभ्यां विवर्जितः क्षुधातृष्णाविवर्जितः सन्मार्ग गच्छन् सुखीभवति ॥२१॥
एवं धम्मं पि काऊणं, जो गच्छड़ परं भवं ।
गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥ २२ ॥ एवममुना प्रकारेणानेन शम्बलसहितपुरुषदृष्टान्तेन यो मनुष्यो धर्मं कृत्वा परभवंपरलोकं गच्छति, स धर्माराधकः पुरुषः सुखी भवति । कीदृशः सः ? अल्पकर्मा अल्पानि कर्माणि यस्य सोऽल्पकर्मा लघुकर्मा । पुनः कीदृशः सः ? अवेदनः, न विद्यते वेदना यस्य सोऽवेदनः, अल्पवेदनो वेदनारहितो वा, अल्पपापकर्मा अल्पाऽसातावेदना इत्यर्थः ॥२२॥
जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू ।
सारभंडाणि नीणेइ, असारं अवउज्जइ ॥ २३ ॥ हे पितरौ ! यथा गृहेऽग्निना प्रदीप्ते - प्रज्ज्वलिते सति तस्य गृहस्य यः प्रभुः स्वामी तदा सारभाण्डानि - सारपदार्थानाजीविकाहेतून् गृहात् 'नीणेइ' इति निष्कासयति, असारं भाण्डं चाऽपोज्झति - अपोहति - त्यजतीत्यर्थः ॥ २३ ॥

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350