Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 330
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९] [३२१ -जीवस्य निवासो यस्मिंस्तदशाश्वतावासम् । पुनरिदं शरीरं दुःखक्लेशानां भाजनम्, दुःखानि जन्मजरामृत्युप्रमुखाणि, क्लेशा-धनहानिस्वजनवियोगादयस्तेषां भाजनं - स्थानम् ।अथवा दुःखहेतवो ये क्लेशा - रोगास्तेषां भाजनम् ॥ १३ ॥ असासए सरीरंमि, रइं नेव लभामिहं । पच्छा पुरा व चइयव्वे, फेणबुब्बुयसन्निभे ॥१४॥ हे पितरावहमशाश्वते शरीरे रतिं न लभे । अहं स्वास्थ्यं न प्राप्नोमि । पुनः कीदृशे शरीरे ? पश्चाद्भोगभोगानन्तरं पुरा-पूर्वं भोगभोगादर्वागेवत्यक्तव्ये । पुनः कीदृशे शरीरे ? फेनबुबुदसन्निभे - पानीयप्रस्फोटकसदृशे ॥ १४ ॥ माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणपत्थंमि, खणंपि न रमामिहं ॥ १५ ॥ हे पितरावसारे मनुष्यत्वेऽहं क्षणमपि न रमे, न हर्षं भजामि । कीदृशे मनुष्यत्वे ? व्याधिरोगाणामालये, व्याधयः कुष्टशूलादयः, रोगा वातपित्तश्लेष्मज्वरादयः, तेषां गृहे। पुनः कीदृशे मनुष्यत्वे ? जरामरणाभ्यां ग्रस्ते ॥ १५ ॥ जम्मदुक्खं जरादुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारे, जत्थ कीसंति जंतुणो ॥१६॥ हे पितरौ ! 'हु' इति निश्चयेन संसारो दुःखं - दुःखहेतुर्वर्तते । 'अहो' इत्याश्चर्ये, यत्र संसारे जीवाः क्लिश्यन्ति - क्लेशं प्राप्नुवन्ति । संसारे किं किं दुःखम् ? तदाह-जन्म दुःखं, जरा दुःखम्, पुनः संसारे रोगास्तापशीतशिरोऽतिप्रमुखाः, पुनर्मरणानि च, एतानि सर्वाणि दुःखानि यत्र सन्ति । तस्मादयं संसारो दुःखहेतुरेव । यत्र भवभ्रमणे जीवाः क्लिश्यन्ति, क्लेशार्ता भवन्ति ॥ १६ ॥ खित्तं वत्थु हिरण्णं च, पुत्तं दारं च बंधवा। चइत्ता णं इमं देहं, गंतव्वमवसस्स मे ॥ १७ ॥ हेपितरौ !ममाऽवशस्य - परवशस्य सतः परभवे गन्तव्यम्।किं कृत्वा ? क्षेत्रं ग्रामवाटिकादिकं त्यक्त्वा . पनर्वास्त गृहम, हिरण्यं रूप्यं स्वर्णम्, पुत्रं तनयम, दारं कलत्रं च पुनर्बान्धवान् स्वज्ञातीन् भ्रातृपितृव्यान्, इमान् सर्वांस्त्यक्त्वा, इमं देहं शरीरमपि त्यक्त्वा ॥ १७ ॥ ...जहा किपाकफलाणं, परिणामो न सुंदरो । एवं भुत्ताण भोगाणं, परिणामो न सुंदरो ॥१८॥ १ इतोऽग्रे-( भुक्तभोगावस्थायां वार्धक्यादौ )-मू० ॥ २ इतोऽग्रे-(अभुक्तभोगितायां बाल्यादौ)-मू०॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350