Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 328
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९ ] [ ३१९ त्रायस्त्रिंशकसुर इव । इन्द्रस्य पूज्यस्थानीया देवास्त्रयस्त्रिंशका दोगुन्दका अप्युच्यन्ते । पुनः कीदृशः सः ? नित्यं मुदितमानसो - निरन्तरहृष्टचित्तः । एतादृशो मृगापुत्रः प्रासादालोकने स्थितः सन् नगरस्य चतुष्कत्रिकचत्वरानालोकते । प्रासादस्यालोकने- गवाक्षे स्थितो नगरस्य चतुष्कादिस्थितानि कौतूहलानि पश्यति । कीदृशे प्रासादालोकने ? 'मणिरयणकुट्टिमतले' मणयश्च रत्नानि च तैः कुट्टिमं-जटितं तलं यस्य तन्मणिरत्नकुट्टिमतलम्, तस्मिन् ॥ ३ ॥ ४ ॥ अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनियमसंजमधरं, सीलड्डुं गुणआगरं ॥ ५ ॥ अथानन्तरं स मृगापुत्रः कुमारस्तत्र तस्मिंश्चतुष्क- त्रिक- चत्वरादौ ' अइच्छंतं' अतिक्रामन्तं विचरन्तं श्रमणं पश्यति । कीदृशं श्रमणम् ? संयतं जीवयतनां कुर्वन्तम्, संयतमिति विशेषणेन वीतरागदेवमार्गानुसारिणम्, न तु शाक्यादिमुनिम् । पुनः कीदृशं ? तपोनियमसंयमधरम्, तपो बाह्याभ्यन्तरभेदेन द्वादशविधम्, नियमो द्रव्य-ध - क्षेत्र-काल- भावेनाभिग्रहग्रहणम् । संयमः सप्तदशविधः, तपश्च नियमश्च संयमश्च तपोनियमसंयमास्तान् धरतीति तपोनियमसंयमधरस्तम् । पुनः कीदृशम् ? शीलाढ्यं शीलैरष्टादशसहस्त्रब्रह्मचर्यभेदैराढ्यं पूर्णम् । पुनः कीदृशं ? गुणाकरं गुणानां - ज्ञानदर्शनचारित्रगुणानामाकरं खनिसदृशम् ॥ ५ ॥ तं देहई मियापुत्ते, दिट्ठीए अणिमिसाए । कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं मए पुरा ॥ ६ ॥ मृगापुत्रस्तं मुनिमनिमेषया दृष्ट्या 'देहई' पश्यति । दृष्ट्वा चैवं विचारयतिक्वचिदेतादृशं रूपं मया दृष्टपूर्वमहमेवं मन्ये- जानामि । मुनिं दृष्ट्वा प्रमुदितमना अभूत्, पूर्वपरिचितमिव मुनिं मेने इत्यर्थः ॥ ६ ॥ साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥ ७ ॥ तस्य मृगापुत्रस्य कुमारस्य तस्य साधोर्दर्शने जातिस्मरणं समुत्पन्नम् । प्राग्भवस्मरणज्ञानं सञ्जातम् । तस्य कथंभूतस्य सतः ? शोभने अध्यवसाये, समीचीने मनसः परिणामे क्षयोपशमभावे मोहं-मूर्च्छा गतस्य प्राप्तस्य सतः । क्वाप्ययं मया दृष्ट इति चिन्तासङ्घट्टमूर्च्छात्मको मोहः । कोऽर्थः ? पुरा साधोर्दर्शनं जातम्, दर्शनात्सम्यग्मनः परिणामोऽभूत्, तदा च मूर्च्छत्पन्ना, तस्यां मूर्च्छायां च जातिस्मृतिरभूदिति भावः ॥ ७ ॥ किं तज्जातिस्मरणम् तदाह देवलोअचुओ संतो, माणुस्सं भवमागओ । सन्निनाणे समुप्पन्ने, जाईसरणं पुराणयं ॥ ८ ॥

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350