Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
॥ अथैकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनं प्रारभ्यते ॥
अष्टादशेऽध्ययने भोगर्द्धनां त्याग उक्तः, भोगर्द्धित्यागात्साधुत्वं स्यात् । तत्साधुत्वं ह्यप्रतिकर्मतया स्यात्, तत एकोनविंशतितमेऽध्ययने निष्प्रतिकर्मतां मृगापुत्रदृष्टान्तेन कथयति - सुग्गीवे नयरे रम्मे, काणणुज्जास
या बलभद्दोत्ति, मिया तस्सग्गमहिसी ॥ १ ॥
सुग्रीवे नाम्नि नगरे बलभद्र इति नामा राजाभूत् । कीदृशे सुग्रीवे नगरे ? रम्येरमणीये, पुनः कीदृशे ? काननोद्यानशोभिते, तत्र काननं - बृहद्वृक्षाणामाम्रराजादनादितरूणां वनम् । उद्यानं नानाविधपादपलतादीनां वनम्, अथवा क्रीडायोग्यं वनमुद्यानमुच्यते । ततः काननं चोद्यानं च काननोद्याने, ताभ्यां शोभितं काननोद्यान- शोभितम्, तस्मिन् । तस्य बलभद्रभूपस्य मृगा नाम्न्यग्रमहिष्यभूत्, महिषी पट्टराज्ञी अग्रा प्रधाना, सा चासौ महिषी चाग्रमहिषी ॥ १ ॥
सिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए ।
अम्मापिऊण दइए, जुवराया दमीसरे ॥ २ ॥
'तेसिं पुत्ते' इति तयोर्बलभद्रमृगाराज्ञ्योः पुत्रो बलश्रीनामासीत् । बलश्रीति मातापितृभ्यां कृतनामा । स बलश्रीर्विश्रुतो - लोकप्रसिद्धो मृगापुत्र इत्यभूत् । मृगाया महाराज्ञ्या: पुत्रो मृगापुत्रः, लोकास्तं मृगापुत्रमित्यूचुरित्यर्थः । कीदृशो मृगापुत्रः ? 'अम्मापिऊण दइए' इति मातापित्रोर्दयितो- वल्लभः । पुनः कीदृश: ? युवराजः, युवा चासौ राजा च युवराजः- कुमारपदधारकः, पितरि जीवति सति राज्ययोग्यः कुमारो युवराज उच्यते । पुनः कीदृश: ? दमीश्वरः, दमो विद्यते येषां ते दमिनस्तेषामीश्वरो दमीश्वरः, उपशमवतां साधूनामैश्वर्यधारी अत्र कुमारावस्थायामेव दमीश्वर इति विशेषणमुक्तम्, तत्तु भाविनि भूतोपचारात् । अथवात्र द्रव्यनिक्षेपो ज्ञेयः, ""द्रव्यजिना जिनजीवा " इति वचनात् ॥ २ ॥ नंदणे सो उपासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निच्चं मुइयमाणसो ॥ ३ ॥ मणिरयणकुट्टिमतले, पासायालोयणट्ठिओ ।
आलोएइ नगरस्स, चउक्कतियचच्चरे ॥ ४॥
उभाभ्यां गाथाभ्यां सम्बन्धः । स मृगापुत्रः कुमारो नन्दने विशिष्टवास्तुशास्त्रोक्तसम्यग्लक्षणोपेते प्रासादे - राजमन्दिरे स्त्रीभिः सह क्रीडते । क इव ? दोगुन्दकदेव इव,
१ दव्वजिणा जिणजीवा - चैत्यवन्दनभाष्य गा. ५१ ॥

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350