Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३१६ ]
[ उत्तराध्ययनसूत्रे
ततः स महाबल एवमवादीत्-अयं निर्ग्रन्थमार्गः क्लीबानां - कातराणां चेहलोकप्रतिबद्धानां परलोकपराङ्मुखानां दुरनुचरोऽस्ति, न पुनर्वीरस्य-निश्चितमतेः पुरुषस्य किमप्यत्र दुष्करणीयमस्तीति मामनुजानीत प्रव्रज्याग्रहणार्थम् । अथ मातृपितृभ्यां तं गृहे रक्षयितुमशक्ताभ्यामवाञ्छ्यैव प्रव्रज्यानुमतिस्तस्य दत्ता । ततो बलराजा कौटुम्बिकपुरुषै- र्हस्तिनागपुरं बाह्याभ्यन्तरे संमार्जितोपलिप्तं कारयति, तं महाबलं कुमारं च मातापितरौ सिंहासने समारोपयतः। सौवर्णिककलशानामष्टोत्तरशतेन यावद्भौमेयानामष्टोत्तरशतेन सर्वद्धर्या महान् निष्क्रमणाभिषेकोऽस्य कृतः । पिता बभाण- पुत्र ! भण, तव किं ददामि ? कस्य वस्तुनः साम्प्रतं तवार्थः ? ततः स महाबल उवाच - इच्छामि तात ! कुत्रिकापणादेकेन लक्षेण पतद्ग्रहम्, एकेन लक्षेण रजोहरणम्, एकेन लक्षेण * काश्यपाकारणमिति ।
ततो बलराजा कौटुम्बिकपुरुषैस्त्रीण्यपि वस्तूनि प्रत्येकमेकैकल क्षेणानायितवान् । ततः स काश्यपो वसुभूतिनामा बलेन राज्ञाभ्यनुज्ञातोऽष्टगुणपोतिकेन पिनद्धमुखश्चतुरङ्गुलवर्जकेशान् महाबलमस्तके चकर्त । प्रभावती तान् केशान् हंसलक्षणपटशाटके प्रतिक्षिपति, तच्च वस्त्रं स्वोच्छीर्षकस्थाने न्यस्यति । ततः स महाबलो गोशीर्षचन्दनानुलिप्तः सर्वालङ्कारविभूषितः पुरुषसहस्रवाह्यां शिबिकामारूढः । एकया वरतरुण्या धृतातपत्रो द्वाभ्यां वरतरुणीभ्यां चाल्यमानवरचामरो मातृपितृभ्यामनेकभटकोटिपरिवृतः प्रव्रज्याग्रहणार्थं चलितः ।
तदानीं तं नगरलोका एवं प्रशंसन्ति । धन्योऽयं, कृतार्थोऽयं, सुलब्धजन्मायं महाबलकुमारो यः संसारभयोद्विग्नः सर्वं सांसारिकविलासमपहाय प्रथमवयःस्थ एवं परिव्रजति । एवं लोकैः प्रशस्यमानः प्रलोक्यमानोऽङ्गुलिभिर्दृश्यमान: पुष्पफलेषु विकीर्यमाणेषु, याचकेभ्यश्च स्वयं दानं ददद्धस्तिनागपुरमध्यं मध्येन निर्गच्छन् धर्मघोषानगारान्तिके समायातः, शिबिकातश्च प्रत्यवतीर्णः । ततो महाबलं कुमारं पुरतः कृत्वा मातापितरौ धर्मघोषानगारं वन्दित्वैवमवदताम्, भगवन्नेष महाबलकुमारः संसारभयोद्विग्नः कामभोगविरक्तो भवदन्तिके प्रव्रजितुमिच्छति तत इमां शिष्यभिक्षां वयं दद्मः, स्वीकुर्वन्तु भवन्तः । धर्मघोषागार एवमुवाच यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुरुत ।
ततः स महाबलो हृष्टस्तुष्टो धर्मघोषमनगारं वन्दित्वोत्तरपूर्वदिगन्तरालेऽपक्रम्यालङ्कावर्गमुत्तारयति । अश्रूणि मुञ्चन्ती प्रभावतीदेव्युत्तरीयवस्त्रे तमलङ्कारवर्गं प्रक्षिपति । महाबलकुमारं प्रत्येवमवदत् । पुत्र ! अत्रार्थे विशेषाद् घटितव्यं यतितव्यम्, अत्रार्थे न प्रमाद्यम् । ततः स महाबलः पञ्चमौष्टिकं लोचं करोति । ततोऽसौ धर्मघोषानगारान्तिके समागत्यैवमवादीत् । भगवन्नयं लोक आदीप्तप्रदीप्तो जरामरणग्रस्तश्चास्तीति स्वयमेव मां प्रव्राजयत । ततः स धर्मघोषसूरिस्तं स्वयमेव प्रव्राज्य सामाचारीमशिक्षयत् । ततो महाबलो ऽनगारो जातः । पञ्चसमितित्रिगुप्तियुक्तः क्रमेण चतुर्दशपूर्वधरश्चाभूत् । बहुभिश्चतुर्थषष्ठाष्टमादिभिर्विचित्रैस्तपः कर्मभिरात्मानं भावयन्, द्वादशवर्षाणि श्रामण्यपर्यायमनुपालयन्, अन्ते मासिक्या संलेखनया आलोचितप्रतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृत्वा स ब्रह्मकल्पे
*
हजाम १ अनुभति अपायेसो

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350