Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ ३१५
मुद्विग्नोऽस्मीति । ततः सा प्रभावत्यनिष्टामश्रुतपूर्वामिमां पुत्रवाचं श्रुत्वा रोमकूपगलत्स्वेदाकीर्णगात्रा शोकभरवेपिताङ्गा निस्तेजस्का दीनवदना करतलमर्द्दितकमलमालेव म्लाना विकीर्णकेशहस्ता त्रुटित्वा धरणीतले निपतिता मूच्छिता च । परिचारिकाभिः काञ्चनकलशोत्क्षिप्तशीतलजलधाराभिषिच्यमाना समाश्वासिता सती रुद्यमानैवमवादीत्-त्वमस्माकमेक एव पुत्रोऽसि, इष्टः कान्तो रत्नभृतो निधिभूतो जीवितभूत ऊंबरपुष्पवदुर्लभः । ततो नैवं वयमिच्छामस्तव क्षणमात्रमपि विप्रयोगम् ।
ततः पुत्र ! त्वं तावद्गृहे तिष्ठ यावद्वयं जीवामः । अस्मासु कालगतेषु परिवर्धितकुलसंतानस्त्वं पश्चात्परिव्रजेः । ततः स महाबल एवमवादीत्-हे मातर्यत्त्वं वदसि तत्सर्वं मोहविलसितम् । परं मनुष्यभवे जन्मजरामरणशोकाभिभूतेऽधुवे सन्ध्याभ्ररागसदृशे स्वप्नदर्शनोपमे विध्वंसनस्वभावे मम प्रीतिर्नास्ति । को जानाति हे मातः ! कः पूर्वं कः • पश्चाद्वा गमिष्यति ? अतोऽहं शीघ्रमेव प्रव्रजिष्यामि । ततः सा प्रभावत्येवमवादीत् - पुत्र ! इदं ते शरीरं विशिष्टरूपलक्षणोपपेतम्, विज्ञानविचक्षणम्, रोगरहितम्, सुखोचितं प्रथमयौवनस्थं वर्तते । अतस्त्वमेतादृशशरीरयौवनगुणाननुभव पश्चाद् प्रव्रजेः । ततः स महाबल एवमवादीत् - हे मातरिदं मनुष्यशरीरं दुःखायतनम्, विविधव्याधिग्रस्तमस्थिसम्बद्धम्, 'स्नसाजालसम्बद्धं, अशौचनिधानमनवस्थिताकारं विनश्वरमेव भविष्यतीतीच्छाम्यहं त्वरितं प्रव्रजितुम् - ततः सा प्रभावत्येवमवादीत्-पुत्र ! इमास्तव सर्वकालकोमलस्वभावा मार्दवार्जवक्षमाविनयगुणयुक्ता हावभावविचक्षणाः सुविशुद्धशीलाः कुलशालिन्यः प्रगल्भवयस्का मनोऽनुकूलभावानुरक्ता अष्टौ भार्याः सन्ति । ताभिः समं भोगान् भुंक्ष्व पश्चाद्वयः परिपाके परिव्रजेः । ततः स महाबल एवमवादीत्
इमे खलु मानुष्यकाः कामभोगा उच्चारप्रश्रवणश्लेष्मवातपित्ताश्रयाः शुक्रशोणितसमुद्भवा अल्पक्रीडिता बहूपसर्गाः कटुकविपाकदुःखानुबन्धिनः सिद्धिविघातकारिणः सन्तीति सद्य एवाहं प्रव्रजिष्यामि । पुनर्मातापितरावेवमूचतुः पुत्र ! परम्परापर्यायाद्बहुहिरण्यसुवर्णविपुलधनधान्यानि स्वयमास्वादमानोऽन्येषां दानाच्चानुगृहाण । मनुष्यलोकसत्कारसन्मानान्यनुगृहाण, पश्चात्परिव्रजेः । ततः स महाबल एवमवादीत् इदं सर्वं हिरण्यादिकं वस्त्वग्निग्राह्यम्, राजग्राह्यम्, दायादग्राह्यम्, भृत्यग्राह्यमध्रुवं विद्युच्चञ्चलम्, नास्य भोगः केनापि ग्रहितुं शक्यः, इति शीघ्रमेवाहं प्रव्रजिष्यामि । ततो मातापितरौ विषयप्रवर्तकवाक्यै - रेनं गृहे रक्षितुं न शक्नुतः, अथ संयमोद्वेगकरैरेवमूचतुः - पुत्र ! अयं निर्ग्रन्थमार्गों दुरनुचरोस्ति । अत्र लोहमया यवाश्चर्वणीयाः सन्ति । गङ्गाप्रतिश्रोतसि गन्तव्यमस्ति । समुद्रो भुजाभ्यां तरणीयोऽस्ति, दीप्ताग्निशिखायां प्रवेष्टव्यमस्ति । खड्गधारायां सञ्चरणीयमस्ति । पुत्र ! निर्ग्रन्थानामाधाकर्मिकं बीजादिभोजनं च न कर्तव्यमस्ति । पुत्र ! त्वं तु सुकुमालोऽसि,
खोचतो, न त्वं क्षुधातृषाशीतौष्ण्यादिपरीषहोपसर्गान् सोढुं समर्थोऽसि । पुनर्भूमिशयनम्, केशलोचनमस्नानम्, ब्रह्मचर्यम्, भिक्षाचर्यां च विधातुं न शक्नोसि । ततः पुत्र ! त्वं तावद्गृहे तिष्ठ यावद्वयं जीवामः ।
१ नसजालसम्बद्धं

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350