Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 323
________________ ३१४] [ उत्तराध्ययनसूत्रे दृष्ट्वा प्रतिबुद्धा । ततः सा तुष्टा यत्र बलस्य राज्ञः शयनीयं तत्रोपागच्छति । तं स्वप्नं च बलस्य राज्ञः कथयति । ततः स बलो राजा तं स्वप्नं श्रुत्वा हृष्टस्तुष्ट एवमवादीत् । हे देवि ! त्वया कल्याणकृत्स्वप्नो दृष्टः । अर्थलाभो भोगलाभो राज्यलाभश्च भविष्यन्ति । एवं खलु तव नवमासेषु सार्धसप्तदिनान्यधिकेषु गतेषु कुलप्रदीपः कुलतिलकः सर्वलक्षणसम्पूर्णो दारको भविष्यतीति । ततः सा प्रभावत्येतदर्थं श्रुत्वा दृष्टा तुष्टा बलस्य राज्ञस्तद्वचनं स्वीकरोति । राजानुज्ञया च स्वशयनीये समागच्छति । तत्प्रभृति च सा सुखेन गर्भमुद्वहति । प्रशस्तदोहदा प्रतिपूर्णदोहदा सा पूर्णेषु मासेषु सुकुमालपाणिपादं सर्वलक्षणोपेतं देवकुमारोपमं दारकं प्रसूतवती । ततः प्रभावत्या देव्याः प्रतिचारिका बलं राजानं विजयजयाभ्यां पुत्रजन्मना च वर्धयन्ति । ततो बलराजैतदर्थं श्रुत्वा दृष्टस्तुष्टो धाराहतकदम्बपुष्पमिव समुच्छ्वसितरोमकूपस्तासामङ्गप्रतिचारिकाणां मुकुटवर्जं सर्वं स्वशरीरालङ्कारं ददौ । 'मस्तकस्नपनादिकं प्रीतिदानं च यथेच्छं वितीर्णवान् । ततः स बलो राजा कौटुम्बिकपुरुषानाकारयति । आगतांश्च तानेवमवादीत् भो देवानुप्रियाः ! क्षिप्रमेव हस्तिनागपुरे नगरे चारकशोधनं मानोन्मानप्रवर्धनं कुरुत, वर्धापनं च घोषयत । एवं राजाज्ञया ते तथैव कृतवन्तः । प्राप्ते च द्वादशे दिवसे तस्य बालकस्य महाबल इति नाम चक्रतुः । ततो महाबलः पञ्चधात्रीपरिवृतो ववृधे । गृहीतकलाकलापश्च यौवनमनुप्राप्तोऽसदृशरूपलावण्यगुणोपपेतानामष्टानां राजवरकन्यानामेकस्मिन्नेव दिवसे पाणिग्रहणमकरोत् । ततस्तस्य महाबलकुमारस्य मातापितरावतिशयेन हर्षेण महदष्टप्रासादोपशोभितं वासभवनं कारयतः । एतादृशं च प्रीतिदानं ददत:- अष्टौ हिरण्यकोटयः, अष्टौ मुकुटानि, अष्टौ कुण्डलयुगलानि, अष्टौ हाराः, अष्टौ गौसाहस्त्रिकम्, अष्टौ ग्रामाः, अष्टौ दासाः, अष्टौ मदहस्तिनः, अष्टौ सौवर्णस्थालानि । एवमन्यदपि सारं स्वापतेयं मातृपितृभ्यां तस्य दत्तम् ततः स महाबल प्रासादवरगत उदारभोगान् भुञ्जानो विचरति । तस्मिंश्च काले विमलस्वामिनः प्रपौत्रो धर्मघोषनामाऽनगारः पञ्चभिरनगारशतैः परिवृतो ग्रामानुग्रामं विहरन् हस्तिनागपुरमागतः । तस्यान्तिके नागरिकपरिषत्समागता । महाबलोऽपि धर्मं श्रोतुं तत्रायातः । श्रुत्वा च धर्मं वैराग्यमापन्नो महाबलकुमारो हृष्टस्तुष्ट - स्त्रिवारं नत्वैवमवादीत् । हे भगवन् ! श्रद्दधामि निर्ग्रथं प्रवचनं यथा भवद्भिरुक्तं सत्यमेवेति । संयममार्गमहमङ्गीकरिष्यामि, नवरं मातापितरावापृच्छामि । गुरवः प्रोचुः प्रतिबन्धं मा कार्षीः । ततः स महाबलो धर्मघोषमनगारं वन्दित्वा हृष्टस्तुष्टो रथमारुह्य हस्तिनागपुरमध्ये यत्र स्वगृहं, तत्रोपागतो रथात्प्रत्यवतरति । यत्र मातापितरौ तत्रोपागत्यैवमवादीत् - अहो ! मातापितरौ ! मया धर्मघोषस्यानगारस्यान्तिके धर्मः श्रुतः स च धर्मो मेऽभिरुचितः । ततो महाबलकुमारं मातापितरावेवमक्दताम् - पुत्र ! त्वं धन्यः कृतार्थश्च । ततः स महाबल एवमवादीत्-अहो ! मातापितरौ ! इच्छाम्यहं भवदाज्ञया प्रव्रजितुम्, संसारभयादहo પહેલાનાં સમયમાં કોઈક આનંદ - પ્રીતિના અવસરે દાસદાસીઓનું દાસપણું દૂર કરવામાં આવતું તેને ४वा 'धौतमस्तकं', 'मस्तकस्नपनं' इत्याहि शब्धो छे. २ धनं ।

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350