Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 332
________________ एकोनविंशतितमं मृगापुत्रीयाख्यमध्ययनम् १९] [३२३ एवं लोए पलित्तंमि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुज्झेहि अणुमन्निओ॥२४॥ एवममुनाऽनेन दृष्टान्तेन लोके जरया मरणेन च प्रदीप्ते - प्रज्ज्वलिते सत्यहमात्मानं तारयिष्यामि । कीदृशोऽहं ? युष्माभिरनुमतो - भवद्भिर्दत्ताजस्तस्मान्मामाज्ञा दातव्या । अहं भवदाज्ञया आत्मन उद्धारं करिष्यामीति भावः ॥२४॥ तं बिति अम्मापियरो, सामन्नं पुत्त दुच्चरं । गुणाणं तु सहस्साइं, धारेयव्वाइं भिक्खुणा ॥ २५ ॥ अथ मातापितरौ तं मृगापुत्र प्रति बूतः, हे पुत्र ! श्रामण्यं दुश्चरम्, साधुधर्मो दुष्करोऽस्ति । हे पुत्र ! चारित्रस्योपकारकारकाणां गुणानां सहस्राणि भिक्षोर्धारयितव्यानि, मूलगुणाश्चोत्तरगुणाश्च भिक्षुणा धारणीयाः ॥ २५ ॥ - समया सव्वभूएसु, सत्तुमित्तेसु वा जगे । पाणाइवायविरई, जावज्जीवाए दुक्करं ॥ २६ ॥ ___ पुनर्हे पुत्र ! सर्वभूतेषु समता कर्तव्या, अथवा 'जगे' इति जगति शत्रुमित्रेषु समता कर्तव्या । पुनर्यावज्जीवं प्राणातिपातविरतिर्दुष्करमिति दुष्करा ॥ २६ ॥ निच्चकालप्पमत्तेणं, मुसावायविवज्जणं ।। भासियव्वं हियं सच्चं, निच्चाउत्तेण दुक्करं ॥ २७ ॥ पुनर्नित्यकालं-सर्वदा अप्रमादित्वेन मृषावादस्य विवर्जनं मृषावादविवर्जनं कर्तव्यम् । पुनहितं-हितकारकं सत्यं वक्तव्यम् । पुनर्नित्यायुक्तेन स्थातव्यम्, तदपि दुष्करमस्ति । आयुक्तः-क्रियासु सावधानत्वम्, नित्यमायुक्तो नित्यायुक्तस्तेन स्थातव्यम् । अत्र भावप्रधाननिर्देशो मन्तव्यः । नित्यमायुक्तत्वेन स्थातव्यं तदपि दुष्करमित्यर्थः ॥ २७ ॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । अणवज्जेसणिज्जस्स, गेण्हणा अवि दुक्करं ॥ २८ ॥ हे पुत्र ! पुनः साधुधर्मे दन्तशोधनप्रमुखस्याप्यदत्तस्य वस्तुनोऽपि विवर्जनम् । शलाकामात्रमपि वस्त्वदत्तं न ग्रहितव्यम् ।अनवद्यं च तदेषणीयं चाऽनवद्येषणीयम् तस्यानवद्यैषणीयस्य पिण्डादेर्ग्रहणमपि दुष्करम् । अनवद्यं - निर्दूषणमचित्तं प्रासुकमेषणीयं द्विचत्वारिंशद्दोषरहितं पिण्डं ग्रहीतव्यम्, तदपि दुष्करमित्यर्थः ॥ २८ ॥ विरई अबंभचेरस्स, कामभोगरसन्नुणा । उग्गं महव्वयं बंभं, धारेयव्वं सुदुक्करं ॥ २९ ॥

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350