Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 303
________________ २९४] [उत्तराध्ययनसूत्रे कपिलः । तदेयं गता तन्निवासिश्रीषेणराज्ञः समीपम्, बभाण च भो राजन् ! मां कपिलसमीपान्मोचय, येनाहं दीक्षां गृह्णामि । राज्ञा कपिलस्योक्तम्, कपिलो न मन्यते । राज्ञा पुनस्तस्या उक्तम्, तावत्त्वं मम गृहे तिष्ठ, यावत्कपिलं बोधयामीति । अन्यदा स राजा स्वपुत्रौ गणिकानिमित्तं युद्धयमानौ दृष्ट्वा वैराग्येण विषं भक्षितवान् । ततः सिंहनन्दिताऽभिनन्दितानाम्न्यौ श्रीषेणनृपस्य भार्ये, कपिलस्य भार्या सत्यभामा च विषप्रयोगेण कालं गताः । चत्वारोऽप्यमी जीवा देवकुरुषु युगलत्वेनोत्पन्नाः, ततः सौधर्मे कल्पे गताः । ततश्च्युत्वा श्रीषेणजीवोऽमिततेजो जातः, अभिनन्दिताजीवः श्रीविजयो जातः । सत्यभामाजीवः सुतारा जाता ।स कपिलजीवस्तिर्यग्भवेषु चिरकालं भ्रान्त्वा क्वचित्तथाविधमनुष्ठानं कृत्वाऽशनिघोषः समुत्पन्नः ।सुतारां च सत्यभामाब्राह्मणीजीवं दृष्ट्वा पूर्वस्नेहेनापहृत्य गतः ।पुनरप्यमिततेजसा पृष्टम्, भगवनहं किं भव्योऽभव्यो वा ? अचलकेवलिना कथितं त्वं भव्य इतश्च नवमे भवे तीर्थङ्करो भविष्यसि । एषोऽपि श्रीविजयस्तव गणधरो भविष्यति । तत एतदाकामिततेजश्रीविजयनृपावचलकेवलिनं वन्दित्वा गतौ स्वस्थानम् । ___ अन्यदामिततेजःश्रीविजयाभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वोक्तम्, यथा षड्विंशतिदिनानि भवतोयोरप्यायुः। ततस्ताभ्यां मेरौ गत्वा कृतोऽष्टाह्निकामहोत्सवः, स्वस्वराज्ये च गत्वा स्वस्वपुत्रावभिषिच्य जगन्नन्दनमुनिसमीपे संयममादाय पादपोपगमनमनशनं विहितम् । विधिना कालं कृत्वा प्राणते कल्पे विंशतिसागरोपमायुर्देवत्वेनोत्पन्नौ । ततश्च्युताविहैव जम्बूद्वीपे पूर्वविदेहे रमणीविजये सीताया महानद्या दक्षिणकुले सुभगायां नगाँ प्रेमसागरस्य राज्ञो वसुन्धराऽनङ्गसुन्दर्योर्महागर्भ क्रमेण कुमारत्वेनोत्पन्नौ । अमिततेजजीवोऽपराजितनामा श्रीविजयजीवोऽनन्तवीर्यनामा जातः । तत्रापि प्रतिशत्रुदमितारिं व्यापाद्य क्रमेण बलदेवत्वं वासुदेवत्वमापन्नौ । तयोश्च पिता प्रव्रज्याविधानेन मृत्वाऽसुरकुमारेन्द्रत्वेनोत्पन्नः । अनन्तवीर्यस्तु कालं कृत्वा द्विचत्वारिंशत्सहस्रवर्षायु रकः प्रथमपृथिव्यामुत्पन्नः । चमरस्तु पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार । सोऽपि संविग्नः सम्यक् सहते । अपराजितो बलदेवो भ्रातृविरहदुःखितो निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्क्रान्तः।शुद्धां प्रव्रज्यां परिपाल्याच्युतेन्द्रत्वेनोत्पन्नः ।अनन्तवीर्यस्तु नरकादुद्धृत्य वैताढ्ये विद्याधरत्वेनोत्पन्नः । अच्युतेन्द्रेण प्रतिबोधितोऽसौ प्रव्रज्यां गृहीत्वाऽच्युतकल्पेन्दसामानिकत्वेनोत्पन्नः । अपराजितोऽच्युतेन्द्रस्ततश्च्युत्वा इहैव जम्बूद्वीपे सीतामहानदीदक्षिणकुले मङ्गलावतीविजये रत्नसञ्चयापुर्यां क्षेमकरो राजा, तस्य भार्या रत्नमाला, तयोः पुत्रो वज्रायुधाभिधानो जातः । इतश्च श्रीविजयजीवो देवायुरनुपाल्य तस्यैव पुत्रत्वेनोत्पन्नः । सहस्रायुध इति तस्य नाम प्रतिष्ठितम् । अन्यदा पौषधशालायां स्थितो वज्रायुधो देवेन्द्रेण प्रशंसितः । यथायं वज्रायुधो धर्माच्चालयितुं न शक्यते देवैर्दानवैश्च । तत एको देवस्तद्वाण्यमश्रद्दधानः पारापतरूपं विकुळ भयभ्रान्तो वज्रायुधमाश्रितः । हे वज्रायुध ! तव शरणं ममास्त्विति

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350