Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 310
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [३०१ नगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि पद्मोत्तरमुनिरपि पालितनिष्कलङ्कश्रामण्यः शुद्धाध्यवसायेन कर्मजालं क्षपयित्वा समुत्पत्रकेवलज्ञानः सम्प्राप्तः सिद्धिमिति । विष्णुकुमारमुनेरप्युग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवैक्रियलब्धय उत्पन्नाः । स कदाचिन्मेरुवत्तुङ्गदेहो गगने व्रजति, कदाचिन्मदनवदूपवान् भवति । एवं नानाविधलब्धिपात्रः स सञ्जातः। इतश्च ते सुव्रताचार्या बहुशिष्यपरिवृता वर्षारात्रस्थित्यर्थं हस्तिनागपुरोद्याने समायाताः, ज्ञाताश्च तेन विरुद्धेन नमुचिना, अवसरं ज्ञात्वा तेन राज्ञे विज्ञप्तम् । यथा पूर्वप्रतिपन्नं मम वरं देहि । चक्रिणोक्तं यथेष्टं मार्गय । नमुचिना भणितं राजनहं वेदभणितेन विधिना यज्ञं कर्तुमिच्छामि, अतो राज्यं मे देहि । चक्रिणा नमुचिः स्वराज्येऽभिषिक्तः, स्वयं चान्तःपुरे प्रविश्य स्थितः । नमुचिर्यज्ञपाटकमागम्य यागनिमित्तं दीक्षितो बभूव । राज्येऽभिषिक्तस्य तस्य वर्धापनार्थं जैनयतीन् वर्जयित्वा सर्वेऽपि लिङ्गिनो लोकाश्च समायाताः । नमुचिना सर्वलोकसमक्षमुक्तम्, सर्वेऽपि लोका मम वर्धापनार्थं समायाताः, जैनयतयः केऽपि नायाताः । एवं छलं प्रकाश्य सुव्रताचार्या आकारिता आगताः । नमुचिना भणिता-भो जैनाचार्याः ! यो यदा ब्राह्मणो वा क्षत्रियो वा राज्यं प्राप्नोति, स तदा पाखण्डिभिरागत्य दृष्ट्व्यः । इयं लोकस्थितिः, यतो राजरक्षितानि तपोधनानि भवन्ति । यूयं पुनः स्तब्धाः सर्वपाखण्डदूषका निर्मर्यादा मां निन्दथ, अतो मदीयं राज्यं मुक्त्वाऽन्यत्र यथासुखं व्रजत । यो युष्माकं मध्ये कोऽपि नगरे भ्रमन् दक्ष्यते स मे वध्यो भविष्यति । सुव्रताचार्यैरुक्तं राजन्नस्माकं राजवर्धापनाचारो नास्ति, तेन वयं त्वद्वर्धापनकृते नायाताः, न च वयं किञ्चिन्निन्दामः, किन्तु समभावास्तिष्ठामः । ततः सरुष्टः प्रतिभणति यदि श्रमणं सप्तदिनोपर्यहं दक्षिष्ये तमहमवश्यं मारयिष्यामि, नात्र सन्देहः । एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः, सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तत एकेन साधुना भणितम्, यथा सदा सेविततपोविशेषो विष्णुकुमारनामा महामुनिः साम्प्रतं मेरुपर्वतचूलास्थो वर्तते । स च महापद्मचक्रिणो भ्रातास्ति, ततस्तद्वचनादयमुपशमिष्यति । आचार्यैरुक्तं तदाकारणार्थं यो विद्यालब्धिसंपन्नः स तत्र व्रजतु । तत एकेन साधुनोक्तमहं मेरुचूलां यावद्गगने गन्तुं शक्तोऽस्मि । पुनः प्रत्यागन्तुं न शक्तोऽस्मि । गुरुणा भणितं विष्णुकुमार एव त्वामिहानेष्यति । तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः, क्षणमात्रेण मेरुचूलायां प्राप्तः । तमायान्तं दृष्ट्वा विष्णुकुमारेण चिन्तितं किञ्चिद् गुरुकं सङ्घकार्यमुत्पन्नम्, यदयं मुनिवर्षाकालमध्येऽत्रायातः । ततः स मुनिविष्णुकुमारं प्रणम्यागमनप्रयोजनं कथितवान् । विष्णुकुमारस्तं मुनि गृहीत्वा स्तोकवेलयाऽऽकाशमार्गेण गजपुरे प्राप्तः, वन्दितास्ते गुरवः, गुर्वाज्ञया साधुसहितो विष्णुकुमारमुनिनमुचिपर्षदि गतः सर्वैः सामन्तादिभिर्वन्दितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग विनयं चकार । विष्णुना धर्मकथनपूर्व नमुचेरेवं भणितम्, वर्षाकालं

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350