Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 320
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [३११ क्षिप्तः । स च हस्ती यं यं पादमुत्क्षिपति, तं तमुदायनः शरैविध्यति, यावद्धस्ती भूमौ निपतितः । तत्स्कन्धादुत्तरंश्चण्डप्रद्योतो बद्धः । तस्य च ललाटे मम दासीपतिरित्यक्षराणि लिखितानि । तत उदायनराज्ञा चण्डप्रद्योतदेशे स्वाधिकारिणः स्थापिताः । स्वयं तु चण्डप्रद्योतं काष्ठपिञ्जरे क्षिप्त्वा सार्धं च नीत्वा स्वदेशं प्रति चलितः । सा प्रतिमा तु ततो नोत्तिष्ठतीति तत्रैव सा मुक्ता । अविच्छिन्नप्रयाणैश्चलितस्य तस्यान्तरा वर्षाकालः समायातः, तेन रुद्धौ दशभी राजभिवूलीप्राकारं कृत्वा मध्ये स रक्षितः सुखेन तत्र तिष्ठति । यत्स्वयं भुङ्क्ते तत्प्रद्योतस्यापि भोजयति । एकदा पर्युषणादिनमायातम्, तदोदायनेनोपवासः कृतः, सूपकारैः प्रद्योतः पृथग्भोजनार्थं पृष्टः, स चिन्तयत्यद्य मां भोजनान्तर्विषदानेन मारयिष्यतीति पृथग्भोजनार्थं मां प्रश्नयन्ति । ततश्चण्डप्रद्योतेनोक्तमद्य किं पृथग्भोजनार्थं पृच्छ्यते ? तैरुक्तमद्य पर्युषणादिने उदायनराजोपोषितोऽस्तीति यद्भवतो रोचते तत्पच्यते । प्रद्योतेनोक्तम्-ममाप्यद्योपवासोऽस्ति, न ज्ञातं मयाद्य पर्युषणादिनम्, सूपकारैश्चण्डप्रद्योतोक्तं कथितमुदायनराज्ञः । तेनापि चिन्तितं जानाम्यहं यथायं धूर्तसार्मिकोऽस्ति । तथाप्यस्मिन् बद्धे मम पर्युषणा न शुद्धयति, इति चण्डप्रद्योतो मुक्तः क्षामितश्च । तदक्षराच्छादननिमित्तं रत्नपट्टस्तस्य मूनि बद्धः, स्वविषयश्च तस्य दत्तः । ततः प्रभृति पट्टबद्धा राजानो जाताः, मुकुटबद्धाश्च पूर्वमप्यासन् । वर्षाराने व्यतिक्रान्ते उदायनराजा ततः प्रस्थितः । व्यापारार्थं यो वणिग्वर्गस्तत्रायातः स तत्रैव स्थितः, दशभी राजभिर्वासित्वाद्दशपुरं नाम नगरं प्रसिद्धं जातम् । __अन्यदा स उदायनराजा पौषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति । पूर्वरात्रसमये च तस्यैतादृशोऽभिप्रायः समुत्पन्नः, धन्यानि तानि ग्रामाकरनगराणि, यत्र श्रमणो भगवान् श्रीमहावीरो विहरति । धन्यास्ते राजेश्वरप्रभृतयो ये श्रमणस्य भगवतः श्रीमहावीरस्यान्तिके केवलिप्रज्ञप्तं धर्म श्रृण्वन्ति, पञ्चाणुव्रतिकं सप्तशिक्षावतिकं द्वादशविधं श्रावकधर्मं च प्रतिपद्यन्ति, तथा मुण्डीभूत्वाऽगारादनगारितां व्रजन्ति । ततो यदि श्रमणो भगवान् श्रीमहावीरः पूर्वानुपूर्व्या चरन् यदीहागच्छेत्, ततोऽहमपि भगवतोऽन्तिके प्रव्रजामि । उदायनस्यायमध्यवसायो भगवता ज्ञातः । प्रातश्चम्पातः प्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवसृतः । तत्र पर्षन्मिलिता, उदायनोऽपि तत्रायातो भगवदन्तिके धर्मं श्रुत्वा हृष्टश्चैवमवादीत् । स्वामिन् ! भवदन्तिकेऽहं प्रव्रजिष्यामि । परं राज्यं कस्मैचिद्ददामीत्युक्त्वा भगवन्तं वन्दित्वा स स्वगृहाभिमुखं चलितः । भगवतापि प्रतिबन्धं मा कार्षीरित्युक्तम् । ततो हस्तिरत्नमारुह्योदायनराजा स्वगृहे समायातः । तत उदायनस्यैतादृशोऽध्यवसायः समुत्पन्नो यद्यहं स्वपुत्रमभीचिकुमारं राज्ये स्थापयित्वा प्रव्रजामि, तदायं राज्ये जनपदे मानुष्यकेषु कामभोगेषु मूछितोऽनाद्यनन्तं संसारकान्तारं भ्रमिष्यति, तत श्रेयः खलु मम

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350