________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३११ क्षिप्तः । स च हस्ती यं यं पादमुत्क्षिपति, तं तमुदायनः शरैविध्यति, यावद्धस्ती भूमौ निपतितः । तत्स्कन्धादुत्तरंश्चण्डप्रद्योतो बद्धः । तस्य च ललाटे मम दासीपतिरित्यक्षराणि लिखितानि ।
तत उदायनराज्ञा चण्डप्रद्योतदेशे स्वाधिकारिणः स्थापिताः । स्वयं तु चण्डप्रद्योतं काष्ठपिञ्जरे क्षिप्त्वा सार्धं च नीत्वा स्वदेशं प्रति चलितः । सा प्रतिमा तु ततो नोत्तिष्ठतीति तत्रैव सा मुक्ता । अविच्छिन्नप्रयाणैश्चलितस्य तस्यान्तरा वर्षाकालः समायातः, तेन रुद्धौ दशभी राजभिवूलीप्राकारं कृत्वा मध्ये स रक्षितः सुखेन तत्र तिष्ठति । यत्स्वयं भुङ्क्ते तत्प्रद्योतस्यापि भोजयति । एकदा पर्युषणादिनमायातम्, तदोदायनेनोपवासः कृतः, सूपकारैः प्रद्योतः पृथग्भोजनार्थं पृष्टः, स चिन्तयत्यद्य मां भोजनान्तर्विषदानेन मारयिष्यतीति पृथग्भोजनार्थं मां प्रश्नयन्ति ।
ततश्चण्डप्रद्योतेनोक्तमद्य किं पृथग्भोजनार्थं पृच्छ्यते ? तैरुक्तमद्य पर्युषणादिने उदायनराजोपोषितोऽस्तीति यद्भवतो रोचते तत्पच्यते । प्रद्योतेनोक्तम्-ममाप्यद्योपवासोऽस्ति, न ज्ञातं मयाद्य पर्युषणादिनम्, सूपकारैश्चण्डप्रद्योतोक्तं कथितमुदायनराज्ञः । तेनापि चिन्तितं जानाम्यहं यथायं धूर्तसार्मिकोऽस्ति । तथाप्यस्मिन् बद्धे मम पर्युषणा न शुद्धयति, इति चण्डप्रद्योतो मुक्तः क्षामितश्च । तदक्षराच्छादननिमित्तं रत्नपट्टस्तस्य मूनि बद्धः, स्वविषयश्च तस्य दत्तः । ततः प्रभृति पट्टबद्धा राजानो जाताः, मुकुटबद्धाश्च पूर्वमप्यासन् । वर्षाराने व्यतिक्रान्ते उदायनराजा ततः प्रस्थितः । व्यापारार्थं यो वणिग्वर्गस्तत्रायातः स तत्रैव स्थितः, दशभी राजभिर्वासित्वाद्दशपुरं नाम नगरं प्रसिद्धं जातम् ।
__अन्यदा स उदायनराजा पौषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति । पूर्वरात्रसमये च तस्यैतादृशोऽभिप्रायः समुत्पन्नः, धन्यानि तानि ग्रामाकरनगराणि, यत्र श्रमणो भगवान् श्रीमहावीरो विहरति । धन्यास्ते राजेश्वरप्रभृतयो ये श्रमणस्य भगवतः श्रीमहावीरस्यान्तिके केवलिप्रज्ञप्तं धर्म श्रृण्वन्ति, पञ्चाणुव्रतिकं सप्तशिक्षावतिकं द्वादशविधं श्रावकधर्मं च प्रतिपद्यन्ति, तथा मुण्डीभूत्वाऽगारादनगारितां व्रजन्ति । ततो यदि श्रमणो भगवान् श्रीमहावीरः पूर्वानुपूर्व्या चरन् यदीहागच्छेत्, ततोऽहमपि भगवतोऽन्तिके प्रव्रजामि । उदायनस्यायमध्यवसायो भगवता ज्ञातः । प्रातश्चम्पातः प्रतिनिष्क्रम्य वीतभयपत्तनस्य मृगवनोद्याने भगवान् समवसृतः । तत्र पर्षन्मिलिता, उदायनोऽपि तत्रायातो भगवदन्तिके धर्मं श्रुत्वा हृष्टश्चैवमवादीत् । स्वामिन् ! भवदन्तिकेऽहं प्रव्रजिष्यामि । परं राज्यं कस्मैचिद्ददामीत्युक्त्वा भगवन्तं वन्दित्वा स स्वगृहाभिमुखं चलितः । भगवतापि प्रतिबन्धं मा कार्षीरित्युक्तम् ।
ततो हस्तिरत्नमारुह्योदायनराजा स्वगृहे समायातः । तत उदायनस्यैतादृशोऽध्यवसायः समुत्पन्नो यद्यहं स्वपुत्रमभीचिकुमारं राज्ये स्थापयित्वा प्रव्रजामि, तदायं राज्ये जनपदे मानुष्यकेषु कामभोगेषु मूछितोऽनाद्यनन्तं संसारकान्तारं भ्रमिष्यति, तत श्रेयः खलु मम