________________
३१२]
[उत्तराध्ययनसूत्रे निजकं भगिनीजातं केशिकुमारं राज्ये स्थापयितुम् । एवं सम्प्रेक्ष्य शोभने तिथिकरणमुहूर्ते कौटुम्बिकपुरुषानाकार्यैवमवादीत्, क्षिप्रमेव केशिकुमारस्य राज्याभिषेकसामग्रीमुपस्थापयत । तैः कृतायां सर्वसामग्यां केशिकुमारो राज्येऽभिषिक्तः । ततस्तत्र केशिकुमारो राजा जातः । उदायनराजा च केशिकुमारराजानं पृष्ट्वा तत्कृतनिष्क्रमणाभिषेकः श्रीमहावीरान्तिके प्रवजितः । बहूनि षष्ठा-ऽष्टम-दशम-द्वादश-मासार्ध-मासक्षपणादीनि तपःकर्माणि कुर्वाणो विहरति ।
__ अन्यदा तस्योदायनराजर्षेरन्तप्रान्ताहारकरणेन महान् व्याधिरुत्पन्नः, वैद्यैरुक्तं दध्यौषधं कुरु । स चोदायनराजर्षिर्भगवदाज्ञयैकाक्येव विहरति, अन्यदा विहरन् स वीतभये गतः। तत्र तस्य भागिनेयः केशिकुमारराजाऽमात्यैर्भणितः, स्वामिन्नेष उदायनराजर्षिः परिषहादिपराभूतः प्रव्रज्यां मोक्तुकाम एकाक्येवेहायातः, तव राज्यं मार्गयिष्यति । स प्राह दास्यामि । तैरुक्तं नैष राजधर्मः । स प्राह तर्हि किं क्रियते ? ते प्राहुर्विषमस्य दीयते । राज्ञोक्तं यथेच्छं कुर्वन्तु । ततस्तैरेकस्याः पशुपाल्या गृहे विषमिश्रितं दधि कारितम्, तेषां शिक्षया तया तस्य तद्दत्तम् ।
उदायनभक्त्या च देवतयाऽपहृतम्, उक्तं च तस्य देवतया-हे महर्षे ! तव विषं दत्तं दध्यन्तः, तेन दध्यौषधं परिहर।तद्वाक्याद्दधि परिहृतम्, रोगो वर्धितुमारब्धः, पुनस्तेन दध्यौषधं कर्तुमारब्धम् । पुनरपि तदन्तर्विषं देवतयापहृतम् । एवं वारत्रयं जातम् । अन्यदा देवता प्रमत्ता जाता, तैश्च विषं दत्तम् । तत उदायनराजर्षिर्बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा मासिक्या संलेखनया केवलज्ञानमुत्पाद्य सिद्धः।तस्य शय्यातरः कुम्भकारस्तदानी क्वचिद्ग्रामान्तरे कार्यार्थं गतोऽभूत् । कुपितया च देवतया वीतभयस्योपरि पांशुवृष्टिर्मुक्ता, सकलमपि पुरमाच्छादितम्, अद्यापि तथैवास्ति।शय्यातर: कुंभकारस्तु शनिपल्लयां मुक्तः । उदायनराजपुत्रस्याभीचिकुमारस्य तदायं वृत्तान्तो जातः।यदोदायनः केशिकुमारंराज्येऽभिषिच्य प्रव्रजितस्तदास्यायमध्यवसायः समुत्पन्नः।अहमुदायनस्य ज्येष्ठपुत्रः प्रभावत्यात्मजः, तादृशमपि मां मुक्त्वा केशिकुमारं राज्येऽभिषिच्योदायनः प्रवजितः, इत्यन्तर्मानसिकेन दुःखेन पराभूतोऽसौ वीतभयपत्तनं मुक्त्वा चम्पायां कोणिकराजानमुपसम्पद्य विपुलभोगसमन्वितोऽभूत् । स चाभिचिकुमारः श्रमणोपासकोऽधिगतजीवाजीवोऽप्युदायनराज्ञि समनुगतवैरोऽभूत् । अभीचिकुमारो बहूनि वर्षाणि श्रमणोपासकपर्यायं प्रतिपाल्यार्धमासिक्या संलेखनयोदायनवैरस्थानमनालोच्य कालं कृत्वाऽसुरकुमारत्वेनोत्पन्नः । एकपल्योपमस्थितिरस्यासीत् । महाविदेहे क्षेत्रे चायं सेत्स्यतीत्युदायनकथा।
तहेव कासीराया, सेऊसच्चपरक्कमो ।
कामभोए परिच्चज्ज, पहणे कम्ममहावणं ॥४९॥ हे मुने ! तथैव तेनैव प्रकारेण पूर्वोक्तनृपवत्काशीदेशपतिनन्दननामा राजा सप्तमबलदेवः कर्मरूपं महावनं प्राहनदुन्मूलयामासेत्यर्थः ।किं कृत्वा ? भोगान् परित्यज्य, कीदृशो