SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [३१३ नन्दनः ? श्रेयःसत्यपराक्रमः, श्रेयः-कल्याणकारकं यत् सत्यं - संयमः श्रेयःसत्यम् । तत्र पराक्रमो यस्य स श्रेयःसत्यपराक्रमः, मोक्षदायकचारित्रधर्मे विहितवीर्य इत्यर्थः ॥ ४९ ॥ अत्र काशीराजदृष्टान्त: वाराणस्यां नगर्यामग्निशिखो राजा, तस्य जयन्त्यभिधाना देवी, तस्याः कुक्षिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम । तस्यानुजो भ्राता शेषवतीराज्ञीसुतो दत्ताख्यो वासुदेवः, स च पित्रा प्रदत्तराज्यः साधितभरता? नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव । कालेन षट्पञ्चाशद्वर्षसहस्राण्यायुरतिवाह्य मृत्वा दत्तः पञ्चमनरकपृथिव्यामुत्पन्नः । नन्दनोऽपि च गृहीतश्रामण्यः समुत्पादितकेवलज्ञानः पञ्चषष्ठिवर्षसहस्राणि जीवितमनुपाल्य मोक्षं गतः। षड्विंशतिधषि चानयोर्देहप्रमाणमासीत् । इति काशीराजदृष्टान्तः । तहेव विजओ राया, आणढाकित्ति पव्वए। रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ हे मुने ! तथैव विजयो नामा द्वितीयो बलदेवो राजा प्रवजितो दीक्षां प्रपत्रः । कि कृत्वा ? राज्यं तु पयहित्तु' इति प्रहृत्य । कीदृशं राज्यं ? गुणसमृद्धं गुणैः सप्ताङ्गैः पूर्णम् । स्वामी १, अमात्य २, सृहत् ३, कोश ४, राष्ट्र ५, दुर्ग ६, बलानि ७, च राज्याङ्गानि । अथवा गुणैरिन्द्रियकामगुणैः पूर्णम् । कीदृशो विजयः ? अनार्त्त - आर्तध्यानरहितः । पुनः कीदृशः ? कीर्तिः कीोपलक्षितः । अथवा आणढाकित्ति' इति आनष्टाऽकीर्तिः, आ-समन्तात्रष्टा अकीर्तिर्यस्य स आनष्टाऽकीर्तिः, अयशोरहितः।पुनः कीदृशः ? महायशा महद्यशो यस्य स महायशाः ॥५०॥ अत्र विजयराजकथा द्वारावत्यां ब्रह्मराजस्य पुत्रः सुभद्राकुक्षिसम्भूतो विजयनामा द्वितीयो बलदेवोऽस्ति । स च स्वलघुभ्रातृद्विसप्तवर्षसहस्रायुर्द्विपृष्ठवासुदेवमरणानन्तरं श्रामण्यमङ्गीकृत्योत्पादितकेवलज्ञानः पञ्चसप्ततिवर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिं गतः । सप्ततिधनूंषि चानयोर्देहमानम् । इति विजयराजकथा ॥१५॥ तहेवुग्गं तवं किच्चा, अव्वखित्तेण चेयसा। महाबलो रायरिसी, आदाय सिरसा सिरिं ॥५१॥ तथैव महाबलनामा राजर्षिस्तृतीये भवे मोक्षं जगामेतिशेषः । किं कृत्वा ? अव्याक्षिप्तेन चेतसा, स्थिरेण चित्तेन, उग्रं-प्रधानं तपः कृत्वा । पुनः किं कृत्वा ? शिरसामस्तकेन श्रियं - चारित्रलक्ष्मीमादाय - गृहीत्वा ॥५१॥ अत्र महाबलराज्ञः कथा अत्रैव भरतक्षेत्रे हस्तिनागपुरं नगरमस्ति, तत्र बलनाम राजा, तस्य प्रभावतीनाम्नी राज्ञी, अन्यदा सा राज्ञी प्रवरशयनीयोपगतेषन्निद्रां गच्छती शशाङ्कशङ्खधवलं सिंहं स्वप्ने
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy