________________
३१०]
[उत्तराध्ययनसूत्रे दास्या स प्रतिचरितः । स नीरुग् जातः । तुष्टेन तेन तस्यै कामगुणिता गुटिका दत्ताः, कथितश्च तासां चिन्तितार्थसाधकप्रभावः ।अन्यदा सा दास्यहं सुवर्णवर्णा सुरूपा भवामीति चिन्तयित्वैकां गुटिकां भक्षितवती, सुवर्णवर्णा सुरूपा च जाता । ततस्तस्याः सुवर्णगुलिकेति नाम जातम् ।
- अन्यदा सा चिन्तयति भोगसुखमनुभवामि । एष उदयनराजा मम पिता, अपरे मत्तुल्याः केऽपि राजानो न सन्तीति चण्डप्रद्योतमेव मनसि कृत्वा द्वितीयां गुटिकां भक्षितवती । तदानीं तस्य चण्डप्रद्योतस्य स्वप्ने देवतया कथितम् ।वीतभयपत्तने उदायनराज्ञो दासी सुवर्णगुलिकानाम्नी सुवर्णवर्णाऽतीवरूपवती त्वद्योग्यास्ति । चण्डप्रद्योतेन सुवर्णगुलिकायाः समीपे दूतः प्रेषितः । दूतेनेकान्ते तस्या एवं कथितं चण्डप्रद्योतस्त्वामीहते । तया भणितमत्र चण्डप्रद्योतः प्रथममायातु, तं पश्यामि, पश्चाद्यथारुच्या तेन सहायास्यामि ।दूतेन गत्वा तस्या वचनं चण्डप्रद्योतस्योक्तम् ।सोऽप्यनलगिरिहस्तिनमारुह्य रात्रौ तत्रायात । दृष्टस्तया,रुचितश्च ।सा भणति-यदिमां प्रतिमा सार्धं नयसि तदाहमायामि, नान्यथेति । ततस्तेन तत्स्थानस्थापनयोग्यान्यप्रतिमा तदानीं नास्तीति तस्यां रात्रौ तत्रोषित्वा स स्वनगरे पश्चाद्गतः । तत्र तादृशीं जिनप्रतिमां कारयित्वा पुनरत्रायातस्तां प्रतिमां तत्र स्थापयित्वा मूलप्रतिमां दासी च गृहीत्वोज्जयिनी स गतः।
तत्रानलगिरिणा मूत्रपुरीषे कृते, तद्गन्धेन वीतभयपत्तनसत्का हस्तिनो निर्मदा जाताः । उदायनराज्ञा तत्कारणं गवेषितम्, अनलगिरिहस्तिनः पदं दृष्टम्, उदायनेन चिन्तित स किमर्थमत्रायातः ? गृहमानुषैरुक्तं सुवर्णगुलिका न दृश्यते । राज्ञोक्तं सा चेटी चण्डप्रद्योतेन गृहीता, परं प्रतिमा विलोकयत । तैरुक्तं प्रतिमा दृश्यते, परं पुष्पाणि म्लानानि दृश्यन्ते । राज्ञा गत्वा स्वयं प्रतिमा विलोकिता, पुष्पम्लानिदर्शनेन राज्ञा ज्ञातम्, नेयं सा प्रतिमा, किन्त्वन्येति विषण्णेन राज्ञा दूतश्चण्डप्रद्योतान्तिके प्रेषितः, मम दास्या नास्ति कार्य । प्रतिमां त्वरितं प्रेषयेति दूतेन चण्डप्रद्योतस्योक्तम् । चण्डप्रद्योतः प्रतिमां नार्पयति तदा सैन्येन समं ज्येष्ठमास एवोदायनश्चलितः, यावन्मरुदेशे तत्सैन्यमायातम्, तावज्जलाप्राप्त्या तत्सैन्यं तृषाक्रान्तं व्याकुलीबभूव। _____ तदानीं राज्ञा प्रभावतीदेवश्चिन्तितः, तेन समागत्य त्रीणि पुष्कराणि कृतानि, तेषु जललाभात्सर्वं सैन्यं सुस्थं जातम् । क्रमेणोदायनराजोज्जयिनीं गतः, कथितवांश्च-भो चण्डप्रद्योत ! तव मम च साक्षायुद्धं भवतु किं नु लोकेन मारितेन । अश्वस्थेन वा त्वया मया च युद्धमङ्गीकर्तव्यम् । चण्डप्रद्योतेनोक्तं रथस्थेनैव त्वया मया च योद्धव्यम् । प्रभाते चण्डप्रद्योतः कपटं कृतवान् । स्वयमनलगिरिहस्तिनमारुह्य सङ्ग्रामाङ्गणे समायातः । उदायनस्तु स्वप्रतिज्ञानिर्वाही रथारूढः सङ्ग्रामाङ्गणे समायातः । तदानीमुदायनेन चण्डप्रद्योतस्योक्तं-त्वमसत्यप्रतिज्ञो जातः, कपटं च कृतवानसि । तथापि तव मत्तो मोक्षो नास्तीति भणतोदायनेन रथो मण्डल्यां क्षिप्तः, चण्डप्रद्योतेन तत्पृष्टावनलगिरिहस्ती वेगेन