________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३०९ वादयति । तदानीं स राजा तस्या मस्तकं न पश्यति, राज्ञोऽधृतिर्जाता, हस्ताद्वीणा पतिता, राज्या पृष्टं किं मया दुष्टं नर्तितं ? राजा मौनमालम्ब्य स्थितः । राज्या अतिनिर्बन्धेन स उक्तवान्, यत्तव मस्तकमपश्यन्नहं व्याकुलीभूतो हस्ताद्वीणां पातितवान् । सा भणति मया सुचिरं श्रावकधर्मः पालितः । न काचिन्मम मरणाद्भीतिरस्ति । अन्यदा तत्प्रतिमापूजनार्थं स्नाता सा राज्ञी स्वचेटी प्रति वस्त्राण्यानयेत्युवाच । तया च दत्तानि, परं प्रभावती दृष्टिभ्रमेण, तया च रक्तानि वस्त्राण्यानीतानीति ज्ञात्वा क्रुद्धा प्राह । जिनगृहे प्रविशन्त्या मम रक्तानि वस्त्राणि ददासीत्युक्त्वा चेटीमादर्शण हतवती, मर्मणि तत्प्रहारलग्नात्सा मृता। प्रभावत्या चिन्तितं-हा! मया निरपराधत्रसजीववधकरणाद् व्रतं भग्नम्।अतः परं किं मे जीवितव्येन ? ततस्तया राज्या राज्ञ उक्तमहं भक्तं प्रत्याख्यामि । राजा नैवेति प्रतिपादितम् । तया पुनः पुनस्तथैवोच्यते, तदा राज्ञोक्तम्-यदि त्वं देवी भूत्वा मां प्रतिबोधयसि तदा त्वं भक्तं प्रत्याख्याहि । राज्या तद्वचोङ्गीकृतम् । भक्तं प्रत्याख्याय समाधिना मृत्वा सा देवलोकं गता देवोऽभूत् । तां च प्रतिमां कुब्जा देवदत्ता दासी त्रिकालं पूजयति । प्रभावतीदेवस्तूदायनं राजानं प्रतिबोधयति, न च स सम्बुद्ध्यते । राजा तु तापसभक्तोऽतः स देवस्तापसरूपं कृत्वाऽमृतफलानि गृहित्वाऽऽगतो राज्ञे दत्तवान् । राज्ञा तान्यास्वादितानि, पृष्टश्च तापसः क्वैतानि फलानि ? तापसो भणति, एतन्नगराभ्यर्णेऽस्मदाश्रमोऽस्ति, तत्रैतानि फलानि सन्ति । राजा तेन सममेकाक्येव तत्र गतः, परं तत्र तापसैः स हन्तुमारब्धः । राजा ततो नष्टस्तस्मिन्नेव वने जैनसाधून् ददर्श, तेषामसौ शरणमाश्रितः । भयं मा कुर्विति तैराश्वासितः, तापसा निवृत्ताः, साधुभिश्च तस्यैवं धर्म उक्तः
धम्मो चेवेत्थ सत्ताणं, सरणं भवसायरे । देवं धम्मं गुरुं चेव, धम्मत्थी य परिक्खए ॥ १ ॥ दसअट्टदोसरहिओ, देवो धम्मोवि निउणदयसहिओ।
सुगुरू य बंभयारी, आरंभपरिग्गहा विरओ ॥ २ ॥ इत्यादिकोपदेशेन स राजा प्रतिबोधितः, प्रतिपन्नो जिनधर्म । प्रभावतीदेव आत्मानं दर्शयित्वा, राजानं च स्थिरीकृत्य स्वस्थाने गतः । एवमुदायनराजा श्रावको जातः ।
इतश्च गन्धारदेशवास्तव्यः सत्यनामा श्रावकः सर्वत्र जिनजन्मभूम्यादितीर्थानि वन्दमानो वैताढ्यं यावद् गतः । तत्र शाश्वतप्रतिमावन्दनार्थमुपवासत्रयं कृतवान् ।तपस्तुष्ट्या तदधिष्ठातृदेव्या तस्य शाश्वतजिनप्रतिमा दर्शिताः, तेन च वन्दिताः । अथ तया देव्या तस्मै श्रावकाय कामितगुटिका दत्ता, ततः स निवृत्तो वीतभयपत्तने जीवितस्वामिप्रतिमां -वन्दितुमायातः । गोशीर्षचन्दनमयीं तां स ववन्दे । दैवात्तस्यातीसारो रोग उत्पन्नः, कुब्जया १ धर्मश्चैवात्र सत्त्वानां, शरणं भवसागरे । देवं धर्म गुरुंचैव, धर्मार्थी च परीक्षते ॥१॥ २ अष्टादशदोषरहितो, देवो धर्मोऽपि निपुणदयासहितः । सुगुरुश्च ब्रह्मचारी, आरम्भपरिग्रहात् विरतः ॥२॥